Book Title: Agam Suttani Satikam Part 30 Nandi Anuyoddwar
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४१२
अनुयोगद्वार-चूलिकासूत्रं पन्नत्ता, तंजहा-खंधाखंधदेसाखंधप्पएसा परमानुपोग्गला, ते णं भंते! किसंखेज्जा असंखेज्जा अनंता? गो० ! नो संखेज्जा नो असंखेज्जा अनंता, सेकेणद्वेण भंते! एवं वुच्चइ-नो संखेज्जा नो असंखेज्जा अनंता?, गो० ! अनंता परमाणुपोग्गला अनंता दुपएसिआ खंधा जाव अनंता अनंतपएसिआ खंधा, से एएणद्वेणं गो० ! एवं वुच्चइ-नो संखेज्जा नो अ० अनंता। ____ जीवदव्वा ने भंते! किं संखिज्जा असंखिज्जा अनंता?, गो०! नो संखिज्जा नो असंखिज्जा
अनंता, सेकेणतुणं भंते! एवं वुच्चइ-नो संखिज्जा नो असंखिज्जा अनंता?, गो०! असंखेज्जा नेरइया असंखेज्जा असुरकुमारा जाव असंखेज्जा थनियकुमारा असंखिज्जा पुढवीकाइया जाव असंखिज्जा वाउकाइआ अनंता वनस्सइकाइआ असंखेज्जा वेइंदिआ जाव असंखिज्जा चउरिदिया असंखिज्जा पंचिंदियतिरिक्खजोनिआ असंखिज्जा मनुस्सा असंखिज्जा वानमंतरा असंखिज्जा जोइसिआ असंखेज्जा वेमानिआअनंता सिद्धा, से एएणऽद्वेणंगो०! एवं वुच्चइनो संखिज्जा नो असंखिज्जा अनंता।
वृ.यद्येतैर्दृष्टिवादे द्रव्याणि मीयन्ते तहिं कतिविधानि भदन्त ! कावद् द्रव्याणि प्रज्ञप्तानि?, गौतम ! द्विविधानि प्रज्ञप्तानि, तदेवाह-'जीवदव्वा य अजीवदव्वा य' । तत्राल्पवक्तव्यत्वात् पश्चानिर्दिष्टान्यप्यजीवद्रव्याणि व्याचिख्यासुराह-'अजीवदव्वाणं भंते! कइविहे'त्यादि सुगम यावद् ‘धम्मत्थिकाय'इत्यादि, एकोऽपि धर्मास्तिकायो नयमतभेदात्रिधा भिद्यते, तच्च(त्र)सङ्ग्रहनयाभिप्रायादेक एव धर्मास्तिकायः-पूर्वोक्तपदार्थः, व्यवहारनयाभिप्रायात्तु बुद्धिपरिकल्पितो द्विभागत्रिभागादिकस्तस्यैव देशः, यथा सम्पूर्णो धर्मास्तिकायो जीवादिगत्युपष्टम्भकं द्रव्यमिष्यते एवं तद्देशा अपि तदुपष्टम्भकानि पृथगेव द्रव्याणीति भावः, ऋजुसूत्राभिप्रायतस्तु स्वकीयस्वकीयसामर्थ्येन जीवादिगत्युपष्टम्भे व्याप्रियमानास्तस्य प्रदेशा बुद्धिपरिकल्पिता निर्विभागाः भागाः पृथगेव द्रव्याणि, एवं अधर्माकाशास्तिकाययोरपि प्रत्येकं त्रयस्त्रयो भेदा वाच्याः, 'अद्धासमय' इत्यत्रैकवचनं वर्तमानकालसमयस्यैव एकस्य सत्त्वादतीतानागतयोस्तु निश्चयनयमतेन विनष्टत्वानुत्पन्नत्वाभ्यामसत्त्वाद्, अत एवेह देशप्रदेशचिन्ता न कृता, एकस्मिन् समये निरंशत्वेन तदसम्भवात्, तदेवं दशविधान्यरूष्यजीवद्रव्याणि ।
रूप्यजीवद्रव्याणि तु स्कन्धादिभेदाच्चतुर्द्धा, तत्र स्कन्धा-व्यनुकादयोऽनन्तानुकावसानाः, देशास्तु तद्विभागत्रिभागदिरूपा अवयवाः, प्रदेशा: पुनस्तदवयवभूता एव निरंशा भागाः परमाणुपुद्गलाः स्कन्धभावमनापन्नां एकाकिनः परमाणवः, तानि च रूपिद्रव्याण्यन्तानि, कथमित्याह'अनंता परमानुपोग्गला' इत्यादि, एते च स्कन्धादयः प्रत्येकमनन्ताः । अथ जीवद्रव्याणि विचारयितुमाह-'जीवदव्वा नं भंते ! कि संखेज्जा' इत्यादि, यस्मानारकादिराशयः प्रत्येकमसङ्ख्याता: वनस्पतयः सिद्धाश्चानन्ता-'जीवद्रव्याण्यानन्तान्येवेत्यर्थः ॥ __ तत्र नारकादयोऽसङ्ख्येयादिस्वरूपतः सामान्येन प्रोक्ता विशिषतस्तु तदसवयेयकं कियत्प्रमाणमिति न ज्ञायते, औदारिकादिशरीरविचारे च तत्परिज्ञानं सिद्ध्यति औदारिकादिशरीरस्वरूपबोधश्च विनेयानां संपद्यते इति चेतसि निधाय जीवाजीवद्रव्यविचारप्रस्तावाच्छरीराणां तदुभयरूपत्वात्तानि विचारयुतुमुपक्रमते
मू.(२९९) कइविहा णं भंते! सरीरा पं०?, गो०! पंच सरीरा पन्नत्ता, तंजहा-ओरालिए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500