Book Title: Agam Suttani Satikam Part 30 Nandi Anuyoddwar
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४१४
अनुयोगद्वार - चूलिकासूत्रं
वन्त्येव, वैक्रियशरीरत्वात्तेषाम्, अत: पारिशेष्यात् तिर्यङ्मनुष्यैस्तथाविधकर्म्मोदयाद् यानि बद्धानि-गृहीतानीत्यर्थः, पृच्छासमये तै: सह यानि सम्बद्धानि तिष्ठन्तीति यावत्, तानि सामान्यतः सर्वाण्यसङ्ख्येयानि, न ज्ञायते तदसङ्ख्येयं कियदपीत्यतो विशिनष्टि- 'असंखेज्जाहि'मित्यादि, प्रतिसमयं यद्येकैकं शरीरमपह्रियते तदा असङ्ख्येयोत्सर्पिण्यवसर्पिणीभिः सर्वाण्यपह्रियन्ते, असङ्ख्येयोत्सर्पिण्यवसर्पिणीषु यावन्तः समयास्तावन्ति तानि बद्धानि प्राप्यन्त इति परमार्थः, तदेतत्कालतो मानमुक्तम्, अथ क्षेत्रतस्तदाह
‘खत्तेओ असंखेज्जा लोग’त्ति, इदमुक्तं भवति-प्रत्येकमसङ्ख्येयप्रदेशात्मिकायां स्वकीयस्वकीयावगाहनायां यद्येकं शरीरं व्यवस्थाप्यते तदाऽसङ्ख्येया लोकास्तैभ्रियन्ते, एकैकस्मिन्नपि नभ:प्रदेशे प्रत्येकं तैर्व्यवस्थाप्यमानैरसङ्ख्येया लोका भ्रियन्ते एव, केवलं शरीरस्य जघन्यतोऽप्यङ्खयेयप्रदेशावगाहित्वादेकस्मिन् प्रदेशेऽवगाहः सिद्धान्ते निषिद्ध इति नेत्थमुच्यते, असत्यकल्पनया उच्यतामेवमपि को दोष इति चेत्, को निवारयिता ?, केवलं सिद्धान्तसंवादिप्रकारेण प्ररूपणेऽदुष्टे लभ्यमाने स एव स्वीकर्तुं श्रेयानिति, आह- भवत्वेयं, किंत्वौदारिकशरीरिणां मनुष्यतिरश्चामनन्तत्वात् कथमनन्तानि शरीराणि न भवन्ति येनासङ्ख्येयान्येवोक्तानि ?, उच्यते, प्रत्येकशरीरिणस्तावदसङ्ख्याता एवातस्तेषां शरीराण्यप्यसङ्ख्यातान्येव, साधारणशरीरिणस्तु विद्यन्ते अनन्तां किन्तु तेषां नैकैकजीवस्यैकैकं शरीरं किन्त्वनन्तानामनन्तानामेकैकं वपुरित्यत औदारिकशरीरिणामानन्त्येऽपि शरीराण्यसङ्ख्येयान्येवेति ।
'तत्थ णं जे ते मुक्केल्लये 'त्यादि, भवान्तरसङ्क्रान्तौ मोक्षगमनकाले वा जीवैर्यान्यौदारिकाणि मुक्तानि त्यक्तानि समुज्झितानि तान्यनन्तानि प्राप्यन्ते, अनन्तकस्यानन्तकत्वान्न ज्ञायते कियदप्यनन्तकमिदं, ततः कालेन विशेषयति-प्रतिसमयमेकैकापहारे अनन्ताभिरुत्सर्पिण्यवसर्पिणीभिरपह्रियन्ते, तत्समयराशितुल्यानि भवन्तीत्यर्थः, अथ क्षेत्रतो विशिनष्टि-'खेत्तओ अनंता लोग 'त्ति, क्षेत्रत:- क्षेत्रमाश्रित्यानन्तानां लोकप्रमाणखण्डानां यः प्रदेशराशिस्तत्तुल्यानि भवन्तीति भावः, द्रव्यतो नियमयति- 'अभवसिद्धिएहि गित्यादि, अभव्यजीवद्रव्यसङ्ख्यातोऽनन्तगुणानि सिद्धजीवद्रव्यसङ्ख्यायास्त्वन- भागवर्तीनि ।
आह-यद्येवं यैः सम्यक्त्वं लब्ध्वा पुनर्मिथ्यात्वे गमनात् तत्त्यक्तं ते प्रतिपतितसम्यदृष्टोऽप्यभव्येभ्योऽनन्तगुणा: सिद्धानामनन्तभागे प्रज्ञापनामहादण्डके पठ्यन्ते, तत्किमेतानि तत्तुल्यानि भवन्ति ?, नैतदेवं, यदि तत्समसङ्ख्यानि भवेयुस्तदा तथैवेह सूत्रे तानि निर्दिष्टानि स्युः, न चैवं ततः प्रतिपतितसम्यग्दृष्टिराशेः कदाचिद्धीनानि कदाचित्तुल्यानि कदाचित्त्वधिकानि इति प्रतिपत्तव्यमिति । पुनरप्याह - ननु जीवैः परित्यक्तशरीराणामानन्त्यमेव तावन्नावगच्छामः, तथाहि-किमेतानि श्मशानादिगतान्यक्षतान्येव यानि तिष्ठन्ति तानि गृह्यन्ते उत खण्डीभूय परमाण्वादिभावेन परिणामान्तरापन्नानि ?, यद्याद्यः पक्षस्तर्हि तेषामनन्तकालावस्थानाभावात् स्तोकत्वादानन्त्यं नास्त्येव, अथ चापरः पक्षस्तर्हि स कश्चिद् पुद्गलोऽपि नास्ति योऽतीताद्धायामेकैकजीवेनौदारिकशरीररूपतया अनन्तशः परिणमय्य न मुक्तः, ततः सर्वस्यापि पुद्गलास्तिकायस्य ग्रहणमापन्नम्, एवं च सत्यभव्येभ्यो ऽनन्तगुणानि सिद्धानामनन्तभागे इत्येतद्विरुध्यते, सर्वपुद्गलास्तिकायगतपुद्गलानां सर्वजीवेभ्योऽप्यनन्तानन्तगुणत्वाद्, अत्रोच्यते, नैष दोषो,
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500