Book Title: Agam Suttani Satikam Part 30 Nandi Anuyoddwar
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
३९०
अनुयोगद्वार - चूलिकासूत्रं
पंचेंदियतिरियनरा वंतर जोइसिय वेमाणी ॥ " इति
नवरम्
समयप्रसिद्धचतुर्विंशतिदण्डकस्याद्यपदेऽवगाहनामानं निरूपितं । साम्प्रतमसुरादिपदे तन्मानं निरूपयितुमाह-'असुरकुमाराणं भंते! हे महालिये 'त्यादि सर्वं पाठ्यसिद्धं, उत्तरवैक्रियावगाहनाऽत्रापि जघन्या अंगुलस्य सङ्ख्येयभाग एव, उत्कृष्टा तु दशस्वपि निकायेषु योजनशतसहस्रमाना, अन्ये त्वाहुः - नागकुमारादिनवनिकायेषूत्कृष्टाऽसौ योजनसहस्रमानैवेति । अथ पृथिव्यादिपदेऽवगाहनामाह
मू. (२६७ वर्तते) पुढविकाइआणं भंते! के महालिआ सरीरोगाहणा पं० ? गो० ! जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणवि अं० अ०, एवं सुहुमाणं ओहिमाणं अपज्जत्तगाणं पज्जत्तगाणं च भाणिअव्वं, एवं जाव बादरवाङकाइयाणं पज्जत्तगाणं भाणिअव्वं, वणस्सइकाइ आणं भंते! के महा० पं० ?, गो० ! जहन्त्रेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणवि सातिरेगं जोयणहस्सं सुहुमवणस्सइकाइयाणं ओहिमाणं अपज्जत्तगाणं पज्जत्तगाणं तिण्हंपि जहत्रेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणवि अंगुलस्स अ०, बादरवणस्सइकाइयाणं जहन्त्रेणं अंगुलस्स अ० उक्कोसेणं सातिरेगं जोयणहस्सं अपज्जत्तगाणं ज० अंगुलस्स असं० उक्कोसेणवि अंगुलस्स अ० पज्जत्तगाणं जहन्त्रेणं अ० उक्कोसेणं सातिरेगं जोअणसहस्सं ।
बेइंदिआणं पुच्छा, गो० ! जहन्त्रेणं अंगुलस्स असं० उक्कोसेणं बारस जोअणाई, अपज्जत्तगाणं जहत्रेणं अंगुलस्स अ० उक्कोसेणवि अंगुलस्स अ०, पज्जत्तगाणं ज० अंगुलस्स सं० उक्कोसेणं बारस जोअणाई ।
तेइंदिआणं पुच्छा गो० ! जहन्त्रेणं अंगुलस्स असं० उक्कोसेणं तिन्नि गाउआउं, अपज्जत्तगाणं जहन्त्रेणं अंगुलस्स अ० उक्कोसेणवि अंगुलस्स अ०, पज्जत्तगाणं ज० अंगुलस्स सं० उक्कोसेणं तिन्नि गाउआई ।
चउरिंदिआणं पुच्छा गो! जहन्त्रेणं अंगुलस्स असं० उक्कोसेणं चत्तारि गाउआई, अपज्जत्तगाणं जहत्रेणं अंगुलस्स अ० उक्कोसेणवि अंगुलस्स अ०, पज्जत्तगाणं ज० अंगुलस्स सं० उक्कोसेणं चत्तारि गाउआई ।
वृ. इहौघिकपृथिवीकायिकानां प्रथममवगाहनामानं निरूप्यते १ ततस्तेषामेवौघतः सूक्ष्माणां २ ततः सूक्ष्माणामप्यपर्याप्तानां ३ तथा पर्याप्तानां ४ तत औधिकबादराणां ५ ततोऽमीषामेवापर्याप्ताविशेषितानां ६ तथा पर्याप्ताविशेषितानां ७ तेषु च सप्तस्वपि स्थानेषु पृथिवीकायिकानांगुलासङ्ख्येयभाग एवावगाहना, किन्त्वसङ्ख्येयकस्य असङ्ख्येयभेदत्वेन तस्यापि तारतम्यसम्भवात्, जघन्योत्कृष्टताविचारो न विरुध्यते, एवमप्तेजोवायुवनस्पतिष्वंगुलासङ्ख्येयभागावगाहीनि यथोक्तानि सप्त सप्त स्थानानि वाच्यानि, नवरमौघिकबादरवनस्पतिषु पर्याप्तेषु च तेषु जघन्यतोऽगुलासङ्ख्येयभागरूपा, उत्कृष्टतस्तु समुद्रगोतीर्थादिगतपद्मनालाद्याश्रित्य सातिरेकयोजनसहस्रमाना अवगाहना दृष्टव्या, अत्राह - ननु यदीत्थं भेदतोऽवगाहना चिन्त्यते तदा नारकासुरकुमारादिष्वप्यपर्याप्तभेदतः कस्मादसौ न प्रोक्ता ?, सत्यं, किन्तु ते लब्धितः सर्वेऽपि पर्याप्ता एव भवन्ति, अतोऽपर्याप्तत्वलक्षणस्य प्रकारान्तरस्य किल तत्रासम्भवान्न भेदतस्तच्चिन्ता, विचित्रत्वाद्वा सूत्रगतेरित्यलं विस्तरेण ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500