________________
मूलं-२५९
३८३ युक्ता यदा भवन्ति तेपांतदा स्वकीयमंगुलमात्मांगुलमुच्यत इति शेषः, इदं च पुरुषाणां कालदिभेदेनानवस्थितमानत्वादनियतप्रमाणं द्रष्टव्यम्, अनेनैवात्मांगुलेन पुरुषाणां प्रमाणयुक्तादिनिर्णय कुर्वन्नाह___ 'अप्पणो अंगुलेणं दुवालसे' त्यादि, यद्यस्यात्मीयमंगुलं तेनात्मनोंऽगुलेन द्वादशांगुलानि मुखं प्रमाणयुक्तं भवति, अनेन च मुखप्रमाणेन नव मुखानि सर्वोऽपि पुरुषः प्रमाणयुक्तो भवति, प्रत्येकं द्वादशांगुलैनवभिर्मुखैरष्टोत्तरं शतमंगुलानां संपद्यते, ततश्चैतावदुच्छ्यः पुरुषः प्रमाणयुक्तो भवतीति परमार्थः । अथ तस्यैव मानयुक्तताप्रतिपादनार्थमाह-द्रोणिकः पुरुषो मानयुक्तो भवति, द्रोणीजलपरिपूर्णा महती कुण्डिका तस्यां प्रवेशितो यः पुरुषो जलस्य द्रोणं पूर्वोक्तस्वरूपं निष्काशयति द्रोणोनजलस्योनां वा तां पूरयति स द्रोणिकः पुरुषो मानयुक्तो निगद्यते इति भावः।
इदानीमेतस्यैवोन्मानयुक्ततामाह-सारपुद्गलरचितत्वात् तुलारोपितः सन्नी भारं तुलयन् पुरुष उन्मानयुक्तो भवति, तत्रोत्तमपुरुषाः यथोक्तैः प्रमाणमानोन्मानैः अन्यैश्च सर्वैरेव गुणैः सम्पन्ना एव भवन्तीत्येतदर्शयन्नाहमू. (२६०) मानुम्मानपमाणजुत्ता(णय)लक्खणवंजणगुनेहिं उववेआ।
उत्तमकुलप्पसूआ उत्तमपुरिसा मुणेअव्वा ।। वृ.'मानुम्मान'गाहा, अनन्तरोक्तस्वरूपैर्मानोन्मानप्रमाणैर्युक्ता उत्तमपुरुषा:-चक्रवादयो मुणितव्या इति सम्बन्धः, तथा लक्षणानि-शङ्खस्वस्तिकादीनि व्यञ्जनानि-मषीतिलकादीनि गुणा:-क्षान्त्यादयस्तैरुपेताः, तथोत्तमकुलानि-उग्रादीनि तत्प्रसूता इति गाथार्थः ।। अथात्मांगुलेनैवोत्तममध्यमाधमपुरुषाणां प्रमाणमाहमू.( २६१) होंति पूण अहियपुरिसा अट्ठसयं अंगुलाण उव्विद्धा।
- छाउइ अहमपुरिसा चउत्तरं मज्झिमिल्ला उ॥ वृ. 'हुंति पुण' गाहा, भवन्ति पुनरधिकपुरुषा-उत्तमपुरुषाश्चक्रवर्त्यादयः अष्टशतमंगुलम्(लानां) उव्विद्धाउन्मिता उच्चस्त्वेन वा, पुन:शब्दस्त्वेषामेवाधिकपुरुषादीनामनेकभेदतादर्शकः, आत्मांगुलेनैव षण्णवत्यंगुलान्यधमपुरुषा भवन्ति, 'चउरुत्तर मज्झमिल्ला उत्ति तेनैवांगुलेन चतुरुत्तरमंगुलशतं मध्यमाः, तुशब्दो यथानुरूपशेषलक्षणादिभावप्रतिपादनपर इति गाथार्थः ॥ ये अष्टोत्तरशतांगुलमानाद्धीना अधिका वा ते किं भवन्तीत्याहमू. ( २६२) हीना या अहिया वा जे खलु सरसत्तसारपरिहीना।
ते उत्तमपुरिसाणं अवस्स पेसत्तणमति ।। वृ. 'हीना वा गाहा, अष्टोत्तरशतांगुलमानात् हीना वा अधिका वा ये खलु स्वर:-सकलजनादेयत्वप्रकृतिगम्भीरतादिगुणालंकृतो ध्वनिः सत्त्वं-दैन्यविनिर्मुक्तो मानसोऽवष्टम्भः सार:शुभपुद्गलोपचयजः शारीर: शक्तिविशेष: तैः परिहीनाः सन्तस्ते उत्तमपुरुषाणाम् उपचितपुण्यप्रारभाराणाम् अवशा-अनिच्छन्तोऽप्यशुभकर्मवशतः प्रेष्यत्वमुपयन्ति, स्वरादिशेषलक्षणवैकल्यसहायं च यथोक्तप्रमाणाधीनाधिक्यमनिष्टफलप्रदायि प्रतिपत्तव्यं, न केवलमिति लक्ष्यते, भरतचक्रवादीनां स्वांगुलतो विंशत्यधिकांगुलशतप्रमाणानामपि निर्णीतत्वात्,
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org