________________
३८२
अनुयोगद्वार - चूलिकासूत्रं त्रिभागोनगुञ्जाद्वयेन वा निर्वृत्तो निष्पावः ३, त्रयो निष्पावा: कर्ममाषकः ४, द्वादश कर्ममाषका एको मण्डलक: ५, षोडश कर्ममाषका एकः सुवर्ण: ६ ।
अमुमेवार्थं किञ्चितढ सूत्रेऽप्याह-'पंच गुंजाओ' इत्यादि, पञ्च गुञ्जा एकः कर्ममाषकः, अथवा चतस्रः काकण्य एकः कर्ममाषकः, यदिवा त्रयो निष्पावका एकः कर्ममाषकः, इदमुक्तं भवति-अस्य प्रकारत्रयस्य मध्ये येन केनचित् प्रकारेण प्रतिभाति तेन वक्ता कर्ममाषकं प्ररूपयतु पूर्वोक्तानुसारेण, न कश्चिदर्थभेद इति । एवं 'चउक्को कम्ममासओ' इत्यादी, चतसृभिः काकिणीभिर्निष्पन्नत्वाचतुष्को यः कर्ममाषक इति स्वरूपविशेषणमात्रमिदं, ते द्वादश कर्ममाषका एको मण्डलकः, एवमष्टचत्वारिं
शत्काकिणीभिर्मण्डलको भवतीति शेषः, भावार्थ:, पूर्ववदेव, षोडश कर्ममाषकाः सुवर्णः, अनवा चतुःषष्टिः काकण्य एक: सुवर्णो, भावार्थ: स एव, एतेन प्रतिमानप्रमाणेन किं प्रयोजनमित्यादि गतार्थं, नवरं रजतं रूप्यं मणयः - चन्द्रकान्तादयः शिलाराजपट्टकः, गन्धपट्ट इत्यन्ये, शेषं प्रतीतं, यावत्तदेतत्प्रतिमानप्रमाणं, तदेवं समर्थितं मानोन्मानादिभेदभिन्नं पञ्चविधमपी विभागनिष्पन्नं द्रव्यप्रमाणं, तत्समर्थने च समर्थितं द्रव्यप्रमाणम् ॥
अथ क्षेत्रप्रमाणभिधित्सुराह
मू. (२५७) से किं तं खेत्तपमाणे ?, २ दुविहे पन्नत्ते, तंजहा-पएसनिप्फन्ने अ विभागनिप्फन्ने अ । से किं तं पएंसनिप्पन्ने ?, २ एगपएसोगाढे दुपएसोगाढे तिपएसोगाढे सुखिज्जप० असंखिज्जप०, से तं पएसनिप्पन्ने। से किं तं विभागनिप्फन्ने ?
वृ . इदमपि द्विविधं - प्रदेशनिष्पन्नं विभागनिष्पन्नं च तत्र पदेशा - इह क्षेत्रस्य निर्विभागा भागास्तैर्निष्पन्नं प्रदेशनिष्पन्नं, विभागः -पूर्वोक्तस्वरूपस्तेन निष्पन्नं विभागनिष्पन्नं । 'से किं तं पएसनिप्फन्ने' तत्रैक प्रदेशावगाढाद्यसंख्ये यप्रदेशावगाढपर्यन्तं प्रदेशनिष्पन्नम्, एकप्रदेशाद्यवगाढताया एकादिभिः क्षेत्र प्रदेशैर्निष्पन्नत्वाद् अत्रापि प्रदेशनिष्पन्नता भावनीया, प्रमाणता त्वेकप्रदेशावगाहित्वादिना स्वस्वरूपणैव प्रमीयमानत्वादिति । विभागनिष्पन्नं त्वंगुलादि, तदेवाहमू. (२५८ )
अगुलविहत्थिरयणी कुच्छी धनु गाउअं च बोद्धव्यं ।
जोयण सेढी पयरं लोगमलोगऽवि अ तहेव ॥
वृ. 'अंगुलविहत्थि ' गाहा, अंगुलादिस्वरूपं च स्त एव शास्त्रकारो न्यक्षेण वक्ष्यति । तत्रांगुलस्वरूपनिर्द्धारणायाह
मू. ( २५९ ) से किं तं अंगुले ?, २ तिविहे पन्नत्ते, तंजहा-आयंगुले उस्सेहंगुले पमाणंगुले । से किं तं आयंगुले ?, २ जे णं जया मनुस्सा भवंति तेसि नं तया अप्पणो अंगुलेणं दुवालसअंगुलाई मुहं नवमुहाई पुरिसे पमाणजुत्ते भवइ, दोन्निए पुरिसे मानजुत्ते भवइ, अद्धभारं तुल्लमाणे पुरिसे उम्मानजुत्ते भवइ, -
वृ. 'से किं तं अंगुले' इत्यादि अंगुलं त्रिविधं प्रज्ञप्तं, तद्यथा- आत्मांगुलम् उत्सेधांगुलं प्रमाणागुलं, तत्र ये यस्मिन् काले भरतसगरादयो मनुष्याः प्रमाणयुक्ता भवन्ति तेषां सम्बन्धी अत्रात्मा गृह्यते, आत्मनोऽगुलमात्मांगुलम्, अत एवाह - 'जे न' मित्यादि, ये भरतादयः, , प्रमाण
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International