SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ मूलं-२५५ ३८१ कवचनत्वेन हस्तं विजानीहीति सम्बन्धः, हस्तेनैव वास्तु मीयत इति तात्पर्यम्, क्षेत्रे-कृषिक दिविषयभूते चतुर्हस्तवंशलक्षणं दण्डमेव मानं विजानीहि, धनुरादीनां चतुर्हस्तत्वे समानेऽपि रूढिवशाद्दण्डसंज्ञाप्रसिद्धनैवावमानविशेषेण क्षेत्रं मीयते इति हृदयं, पथि-मार्गविषये धनुरेव मानं, मार्गगव्यूतादिपरिच्छेदो धनुःसंज्ञाप्रसिद्धेनैवावमानविशेषेण क्रियते न दण्डादिभिरितिः भावः, खातं च-कूपादि नालिकयैव यष्टिविशेषरूपया मीयत इति गम्यते, एवं युगादिरपि यस्य तत्र व्यापारो रूढस्तस्य तत्र वाच्यः, यत्कथंभूतं हस्तदण्डादिकमित्याह-अवमानसंज्ञयोपलक्षितमिति गाथार्थः। मू.(२५६) एएणं अवमानपमानेनं किं पओअणं?, एएणं अवमानपमाणेणं खायचिअरइअकरकचियकडपडभित्तिपरिक्खेवसंसियाणंदव्वाणं अवमाणपमाणनिव्विअत्तिलक्खणं भवइ, से तं अवमाने। से किंतं गणिमे?, २ जनं गणिज्जइ, तंजहा-एगो दस सयं सहस्सं दस सहस्साइंसयसहस्सं दस सयसहस्साइं कोडी, एएणं गणिमप्पमाणेणं किं पओअणं?, एएणं गणिमपमाणेणं भितगभितिभत्तवेअणआयव्वयसंसिआणं दव्वाणं गणियप्पमाणनिवित्तलक्खणं भवइ, से तं गणिमे। वृ.एतेनावमानप्रमाणेन किं प्रयोजनमित्यादि भावितर्थमेवं, नवरंखातं-कूपादि चितं त्विष्टिकादि रचितं-प्रासादपीठादि क्रकचितं-करपत्रविदारितं काष्ठादि, कटादयः प्रतीता एव, परिक्षेपो-मित्त्यादेरेव परिधिः नगरपरिखदिर्वा, एतेषां खातादिसंसृतानामभेदेऽपि भेदविकल्पनया खातादिविषयाणां द्रव्याणां खातादीनामेवेति तात्पर्यम्, अवमानमेव प्रमाणं तस्य निर्वृत्तिलक्षणं भवतीति तदेतदवमानमिति निगमनम्। ___ 'से किं तं गणीमे'इत्यादी, गण्यते-सङ्घयायते वस्त्वनेनेति गणिमम्-एकादि, अथवा गण्यते-सङ्ख्यायते यत्तद्गणिमं-रूपकादि, तत्र कर्मसाधनपक्षमङ्गीकृत्याह-'जण्ण'मित्यादि, गण्यते तद्गणिमं, कथं गण्यते इत्याह-'एक्को' इत्यादि, एतेन गणिमप्रमाणेन किं प्रयोजनमित्यादि गतार्थमेव, नवरं भृतक:-कर्मकरो भृतिः-पदात्यादीनां वृत्तिः भक्तंभोजनं वेतनकं-कविन्दादिना(दीनां) व्यूतवस्त्रव्यतिकरेऽर्थप्रदानम्, एतेषु आयव्ययसंश्रिताां-प्रतिबद्धानां रूपकादिद्रव्याणां गणिमप्रमाणेन निर्वृत्तिलक्षणम्-इयत्तावगमरूपं भवति, तदेतद्गणिममिति। अथ प्रतिमानप्रमाणं निरूपयितुमाह मू.( २५६ वर्तते ) से किं तं पडिमाणे ?, जण्णं पडिमिणिज्जइ, तंजहा-गुंजा कागणी निप्फाओ कम्ममासओ मंडलओ सुवन्नो, पंच गुंजाओ कम्ममासओ कागण्यपेक्षया, चत्तारि कागणीओ कम्ममासओ तिनि निप्फावा कम्ममासओ एवं चउक्को कम्ममासओ काकण्यपेक्षयेत्यर्थः, बारस कम्ममासया सुवन्नो एवं चउसट्ठि कागणीओ सुवन्नो, एएणं पडिमाणपमानेनं किंपओअणं?, एएणं पडिमानपमाणेणं सुवन्नरजतमणिमोत्तिअसंखसिलप्पवालाईणंदव्वाणं पडिमाणप्पमाणनिवित्तिलक्खणं भवइ, से तं पडिमाणे। · से तं विभागनिप्फन्ने । से तं दव्वपमाणे। वृ.मीयतेऽनेनेति मानं भेयस्य-सुवर्णादेः प्रतिरूपं-सदृशं मानं प्रतिमानं-गुञ्जादि, अथवा प्रतिमीयते तदिति प्रतिमान, तत्र गुञ्जा चणोठिया १ सपादा गुञ्जा काकणी २ सत्रिभागकाकण्या Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy