SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ - ३८४ अनुयोगद्वार-चूलिकासूत्रं महावीरादीनां च केषाञ्चिन्मतेन चतुरशीत्याद्यंगुलप्रमाणत्वाद्, भवन्ति च विशिष्टाः स्वरादयः प्रधानफलदायिनो, यत उक्तम् - "अस्थिष्वर्थाः सुखं मांसे, त्वचि भोगाः स्त्रियोऽक्षिषु । - गतौ यानं स्वरे चाज्ञा, सर्वं सत्त्वे प्रतिष्ठितम् ॥” इति गाथार्थः । मू. ( २६३) एएणं अंगुलपमाणेणं छ अंगुलाई पाओ दो पाया विहत्थी दो विहत्थीओ रयणीओ कुच्छी दो कुच्छीओ दंडं धनू जुगे नालिआ अक्खे मुसले दो घनुसहस्साई गाउअं चत्तारि गाउआइं जोअणं। वृ.एतेनांगुलप्रमाणेन षडंगुलानि पादः, पादस्य मध्यतलप्रदेश: षडंगुलविस्तीर्णः, पादैकदेशत्वात् पादः द्वौ च युग्मीकृतौ पादौ वितस्तिः, द्वे च वितस्ती रनिः, हस्त इत्यर्थः, रनिद्वयं कुक्षिः, प्रत्येक कुक्षिद्वयनिष्पन्नास्तु षट् प्रमाणविशेषा दण्डधनुर्युगनालिकाऽक्षमुशललक्षणा भवन्ति, तत्राक्षो-धूः शेषाश्च गतार्थाः, द्वे धनुःसहस्र गव्यूतं, चत्वारि गव्यूतानि योजनम्। म.(२६३)एएणं आयंगुलपमानेनं किं पओअणं, २ एएणं आयंगलेणं जे नं जया मनुस्सा हवंति तेसिनंतया नं आयंगुलेणं अगडतलागदहनदीवाविपुक्खरिणीदीहियगुंजालिआरो सरा सरपंतिआओसरसरपंतिआओ बिलपंतिआओ आरामुज्जाणकाणणवणवणसंडवणराईओ देउलसभापवाथूभखाइअपरिहाओ पागारअट्टालयचरिअदारगोपुरपासायघरसरणलयणआवणसिंघाडगतिगचउक्कचच्चरचउम्मुहमहापहपहसगडरहजाणजुग्गगिल्लिथिल्लिसिविअसंदमाणिआओ लोहीलोहकडाहकडिल्लयभंडमत्तोवगरणमाईणि अज्जकालिआइंच जोअणाई भविजंति, से समासओ तिविहे पन्नत्ते, तंजहा-सूईअंगुले पयरंगुले घनंगुले अंगुलायया एगपएसिया सेढी सूईअंगुले, सुई सूइगुणिया पयरंगुले, पयरं सूइए गुणितं घनंगुले। एएसि णं भंते ! सूइअंगुलपयरंगुलघणंगुललाणं कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, सव्वथोवे सूइअंगुले, पयरंगुले असंखेज्जगुणे, घनंगुले असंखिज्जगुणे, से तं आयंगुले। वृ.गतार्थं, नवरं ये यदा मनुष्या भवन्ति तेषां तदा आत्मनोऽगुलेन स्वकीयस्वकीयकालसम्भवीन्यवटहदादीनि मीयन्त इति सणटङ्कः, तत्र अवट:-कूपः तडागः-खानितो जलाशयविशेषः वाप्यः-चतुरस्रा जलाशयविशेषाः, पुष्करिण्यो-वृत्तास्ता एव पुष्करवन्त्यो वा दीधिका:-सारिण्यः सारिण्य एव वक्रा गुञ्जालिका भण्यन्ते सर:-स्वयंसम्भूतो जलाशयविशेष एव सरपंतियाउत्ति-पङ्क्तिभिर्व्यवस्थापितानि सरांसि सर:पङ्क्तयः सरसरपंतियाउत्ति-यासु सर:पङ्क्तिष्वेकस्मात्सरसोऽन्यत्र ततोऽपि अन्यत्र कपाटसञ्चारकेनोदकं संचरति ताः सर:सर:पक्तयः बिलपङ्क्तयः प्रतीता: माधवीलतादिषु दम्पत्यादीनि येष्वारमन्ति क्रीडन्ति ते आरामाः पुष्पफलादिसमृद्धानेकवृक्षसंकुलान्युत्सवादौ बहुजनपरिभोग्यान्युद्यानानि सामान्यवृक्षजातियुक्तानि नगराभ्यर्णवर्तीनि काननानि, अथवा स्त्रीणां पुरुषाणां वा केवलानां परिभोग्यानि काननानि, यदिवा येभ्यः परतो भूधरोऽटवी वा तानि सर्वेभ्योऽपिवनेभ्यः पर्यन्तव र्तीनि काननानि, शीर्णवृक्षकलितानि वा काननानि, एकजातीयवृक्षाकीर्णानि वनानि, अनेकजातीयैरुत्तमैश्च पादपैराकीर्णानि वनखण्डानि, एकजातीयानामितरेषांअ वा तरूणां पड्क्तयो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy