SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ मूलं-२६३ ३८५ वनराजयः, सन्तो भजन्त्येतामिति सभा-पुस्तकवाचनभूमिर्बहुजनसमागमस्थानं वा, अध उपरि च समखातरूपा खातिका, अधः सङ्कीर्णोपरिविस्तीर्णा खातरूपातु परिखा, प्राकारोपरि आश्रयविशेषाः अट्टालकाः, गृहाणां प्रारारस्य चान्तरे अष्टस्तविस्तारो हस्त्यादिसञ्चारमार्गश्चरिका, प्रतोलीद्वारणां परस्परतोऽन्तराणि गोपुराणि, राजानां देवतानां च भवनानि प्रासादा: उत्सेधबहुला वा प्रासादाः, गृहाणि सामान्यजनानां सामान्यानि वा, शरणानि तृणमयावसरिकादीनिलयनानिउत्कीर्णपर्वतगृहाणि गिरिगुहा वा कार्पटिकाद्यावासस्थानं वा आपणा-हट्टाः नानाहट्टगृहाध्यासितस्त्रिकोणो भूभागविशेषः, शृङ्गाटकं, स्थापना त्रिपथसमागमो वा शृङ्गाटकं त्रिकं तं त्रिपथसमागम एव तथा प्रभूतगृहाश्रयश्चतुरस्रो भूभागश्चतुष्कं यथा(द्वा) चतुष्पथसमागमो वा चतुष्पणसमागम एव, षट्पथसमागमो वा चत्वरंचतुर्मुखदेवकुलिकादि चतुर्मुखं महान राजमार्गो महापथ: इतरेपन्थान: देवकुलसभादीनि पदानिक्वचिद्वाचनाविशेषे अत्रैवान्तरे दृश्यन्ते, शकटंगडकादि, रथो द्विधा-यानरथः संग्रामरथश्च, तत्र संग्रामरथस्योपरिप्राकारानुकारिणी कटीप्रमाणा फलकमयी वेदिका क्रियते, अपरस्य त्वसौ न भवतीति विशेषः, यानं-गन्त्र्यादि जुग्गत्तिगोलविषयप्रसिद्ध द्विहस्तप्रमाणं चतुरस्रवेदिकोपशोभितंजम्पानं, गिाल्लत्तिहस्ति उपरिकोल्लरूपा यामानुषं गिलतीव, थिल्लित्ति-लटानां यदड्डापल्लाणां रूढं तदन्यविषयेषु थिल्लीत्युच्यते सीयत्तिशिविका कटूकारांच्छादितो जम्पानविशेष: 'संदमाणिय'त्ति पुरुषप्रमाणायामो जम्पानविशेष एव लोहित्ति-लोही मणडनकाचिपचनिका कविल्ली लोहकडाहित्ति-लोहमयं बृहत्कडिल्लं भाण्डं-मृन्मयादिभाजनं मात्रः-कांश(स्य)भाजनाधुपकरणमात्राया आधारविशेष: उपकरणं त्वनेकविधं कटपिटकशूर्पादिकं शेषं तु यदिहं क्वचित्किञ्चिन्न व्याख्यातं तत्सुगमत्वादिति मन्तव्यं। - तदेवमात्मांगुलेनात्मीयात्मीयकालसम्भवीनि वस्तून्यद्यकालीनानि च योजनानि मीयन्ते, ये यत्र काले पुरुषा भवन्ति तदपेक्षयाऽद्यशब्दो द्रष्टव्यः। ___ इदं चात्मांगुलं सूच्यंगुलादिभेदात् त्रिविधं, तत्र दैर्येणांगुलायता बाहल्यतस्त्वेशप्रादेशिकी नभःप्रदेशश्रेणिः सूच्यंगुलमुच्यते, एतच्च सद्भावतोऽसंख्येयप्रदेशमप्यसत्कल्पनया सूच्याकारव्यवस्थापितप्रदेशत्रयनिष्पन्नं दृष्टव्यं, सूची सूच्यैव गुणिता प्रतरांगुलम्, इदमपि परमार्थतोऽसंख्येयप्रदेशात्मकम्, असद्भावतस्त्वेषैवानन्तरदर्शिता त्रिपदेशात्मिका सूचिस्तयैव गुण्यते, अतः प्रत्येकं प्रदेशत्रयनिष्पन्नसूचीत्रयात्मकं नवप्रदेशसंख्यसंपद्यते, प्रतरश्च सूच्या गुणितो दैर्येण विष्कम्भतः पिण्डतश्च समसङ्घयं धनांगुल भवति, देादिषु त्रिष्वपि स्थानेषु समतालक्षणस्यैव समयचर्य्यया घनस्यहरूढत्वात्, प्रतरामुलं तु दैर्ध्यविष्कम्भाभ्यामेव समं, न पिण्डत: तस्यैकप्रदेशमात्रत्वादिति भावः, इदमपि वस्तुवृत्त्याऽसंख्येयप्रदेशमानम्, असत्प्ररूपणया तु सप्तविंशतिप्रदेशात्मकं पूर्वोक्तसूच्या अनन्तरोक्तनवप्रदेशात्मके प्रतरे गुणिते एतावतामोव प्रदेशानां भावाद्, एषां च स्थापना अनन्तरनिर्दिष्टनवप्रदेशात्मकप्रतरस्याध उपरिच नव नव प्रदेशान् दत्त्वा भावनीया, तथा च दैर्ध्यविष्कम्भपिण्डैस्तुल्यामिदमापद्यते। 30/25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy