Book Title: Agam Suttani Satikam Part 30 Nandi Anuyoddwar
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
-
३६६
अनुयोगद्वार-चूलिकासूत्रं तथा शत्रुजनादिदर्शने तच्छिर: कर्त्तनादिप्रवृत्तानां पशुशूककुरङ्गवधादिप्रवृत्तानां च यो रौद्राध्यवसायात्मको भ्रुकुटीभङ्गादिलिङ्गो रौद्रो रसः सोऽप्युपलक्षणत्वात्रैव दृष्टव्यः, अन्यथा स निरास्पद एव स्याद्, अत एव रौद्रपरिणामवत्पुरुषचेष्टाप्रतिपादकमेवोदाहरणं दर्शयिष्यति, भीतचेष्टाप्रतिपादकं तु तत् स्वत एवाभ्यूह्यमित्यलं प्रसङ्गेन। __उदाहरणमाह-'भिउडी' गाहा, त्रिवलीतरङ्गितललाटरूपया भृकुट्य विडम्बितं-विकृतीकृतं मुखं यस्य तत् सम्बोधनं हे भ्रुकुटीविडम्बितमुख! संदष्ठौष्ठः 'इत' इति इतश्च इतश्च 'रुहिरमाक्किण्ण'त्ति विक्षिप्तरुधिरइत्यर्थः, हंसि' व्यापादयति पशुम्, असुरो-दानवस्तन्निभः-तत्सदृशः, भीमं रसितं-शब्दितं यस्य तत्संबोधनं हे भीमरसित! 'अतिरौद्र' अतिशयरौद्राकृते! रौद्रोऽसिरौद्रपरिणामयुक्तोऽसीति।
अथ व्रीडारसं हेतुतो लक्षणतश्चाहमू. (२२३) किनओक्यारगुज्झगुरुदारमेरावइक्कमुप्पन्नो।
वेलणओ नाम रसो लज्जासंकाकरणलिंगो। मू. ( २२४ )वेलणओ रसो जहा-किलोइअकरणीओ लज्जणीअतरंति लज्जयामुत्ति?।
वारिज्जमि गुरुयणो परिवंदइ जं वहप्पोत्तं ।। कृ. विनयोपचारगुह्यगुरुदारमयांदानां व्यतिक्रम-स्थितिलङ्घनं तदुत्पन्नो व्रीडनको नाम रसो भवति, तत्र विनरयार्हानां विनयोपचारव्यतिक्रमे शिष्टस्य पश्चात् व्रीडा प्रादुरस्ति, पश्यत मया कथं पूज्यपूजाव्यतिक्रकमः कृत इति ?, तथा गुह्यं-रहस्यं तस्य च व्यतिक्रकमेऽन्यकथनादिलक्षणे व्रीडारसः प्रादुर्भवति, तथा गुरव-पूज्याः पितृत्वकलाग्राहकोपाध्यायादयस्तद्दारैश्च सहाब्रह्मसेवादिलक्षणे मर्यादाव्यतिक्रकम कृते लञ्जारसः प्रादुर्भवतीति, एवमन्योऽपि दृष्टव्यः, किंलक्षण इत्याह-लञ्जाशङ्कयोः करणं-विधानं लिङ्गं यस्य स तथा, तत्र शिरसोऽधोऽवनमनं गायत्रसङ्कोच इत्यादिहेतुका लञ्जा, मां न कचित् कश्चित् किञ्चिद्भणिष्यतीति सर्वत्राभिशङ्कितत्वं शङ्केति। __ अत्रोदाहरणं-'किलोइय' गाहा, इह कचिद्देशेऽयं समाचारो, यदुत-अभिनववध्या: स्वभा यतए प्रथमयोन्युइँदे कृते शोणितचर्चितं तन्निवसनं अक्षतयोनिरयं न पुनरग्रेऽप्यासेवितानाचारेति संज्ञापनार्थं प्रतिगृहं भ्राम्यते, सकलजनमसक्षं च श्वश्रूश्वशुरादिस्तदीयगुरुजनः सतीत्वख्यापनार्थंतद्वन्दत इति, एवं व्यवस्थिते सखीपुरतो वधूभणति-'कि लोइयकरणीउ'त्ति करणीक्रिया, ततश्च लौकिकक्रियाया-लौकिककर्त्तव्यात् सकाशात किमन्याल्लञ्जनीयतरं ?, न किञ्चिदित्यर्थः, इत्यतो लञ्जिताऽहं भवामि, किमिति?,-यतो 'वारेञ्जो' विवाः तत्र गुरुजनो वन्दते 'वहुप्पोत्तं'ति वधूनिवसनमिति।
अथ बीभत्सं हेतुतो लक्षणतश्चाहमू. ( २२५) असुइकुणिमदुइंसणसंजोगब्भासगंधनिष्फन्नो।
निव्वेअऽविहिंसालक्खथो रसो होइ बीभत्सो।। मू.( २२६ )बीभत्सो रसो जहा-असुइमलभरियअनिज्झरसभावदुग्गंधि सव्वकालंपि
धन्ना उ सरीरकलिं बहुमलकलुसं विमुचंति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500