Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad

View full book text
Previous | Next

Page 480
________________ प्रकाक्षिका रीका-सप्तमवक्षस्कारः सू. २९ चन्द्रसूर्याणां विमानवाहकदेवसंख्यानि०११ रेण मनोहरेण पूरयन्ति अम्बरं दिशाश्च शोभयन्ति चत्वारि देवसहस्राणि गजरूपधारिणां देवानां दाक्षिणात्यां बाहां परिवान्तीति ॥ चन्द्रविमानस्य खलु पश्चिमायां खलु श्वेतानां सुभगानां सुप्रभाणां चल चपलककूटशा. लीनां धननिचित सुबद्धलक्षणोन्मत्तेपदानत कृपोष्ठानां चंक्रमित ललित पुलकित चलचपल गर्वितगतीनां सन्नतपार्थानां संगतपार्थानां मुजापानिां परिवर्तितसुसंस्थितकटीनाम् अवलम्ब प्रलम्ब लक्षण प्रमाणयुक्त रमणीय बालगण्डानां समखुरवालिधानानां समलिखित शङ्गतीक्ष्णाग्रसंगवानां तनु सूक्ष्म सुजातस्निग्धलोमच्छविधराणामुपचितमांसलविशाल परिपूर्णस्कन्धप्रदेशसुन्दराणां वैडूर्यभासमानकटाक्षसुनिरीक्षणानां युक्तप्रमाणप्रधानलक्षणप्रशस्तरमणीयगग्गरगलशोभितानां घर घर सुशब्दबद्ध कठपरिमण्डिवानां नानामणिकनकरत्नघटिकावैकक्षिक सुकृतमालिकानां वर घण्टा गलकमालोज्ज्वलश्रीधराणां पदमोत्पल सकलमुरभिमालाविभूषितानां वनखुराणां विविधविखुराणां स्फटिकमयदन्तानां तपनीय. जिवानां तपनीयतालुकानां तपनीय योत्रक योनितानां कामगमानां प्रीतिगमानां मनोगमानां मनोरमाणाममितगतीनाम् अमित बलबीर्यपुरुषकारपराकमाणां महता गनितगम्भीररवेण मधुरेण मनोहरेण पूरयन्ति अम्रदिशाश्च शोभयन्ति चत्वारि देव सहस्राणि वृषभरूपधारिणां देवानाम्, पाश्चात्यां बाह परिवहन्तीति चन्द्रश्मिानस्य खलु उत्तरेण श्वेतानां सुभगानां सुप्रमाणां तरो मल्लिहाय नानां हरिमेलक मल्लिकाक्षाणां चंचुरित ललित पुलकित चलचपल चञ्चलगतीनां लङ्घनवलानमान धोरण त्रिपदी जयिनी शिक्षितगतीनां ललंतलामगलगतवरभूषणानां सन्नतपार्थानां सङ्गतपार्थानां पीवरवर्तितसुसंस्थितकटीनाम, अवकम्ब प्रलम्बलक्षणप्रमाणयुक्त रमणीय बालपुच्छानाम्, तनु सूक्ष्मसुजातस्निग्धलोमच्छ विधराणाम् मृदुविशदसूक्ष्मलक्षणपशसविस्तीर्णरेशरबालधरणाम, ललन्त थासगललाट वरभूषणानाम् मुखमण्डकावचूलकचामर थासर.परिमण्डित कटीनाम्, तपनीयखुराणाम तपनीयजिह्वानां तपनीयतालुकानां तपनीय योजक सुयोनितानां कामगमानां प्रीतिगमानां मनोगमानां मनोरमाणाममितगतोनाम अभितबलवीये पुरुषकारपराक्रमाणाम् महता हयहेषित किलकिलायितरवेण मनोहरेण पूरयन्ति अम्बरदिशाश्च शोभयन्ति चत्वारि देव सहस्राणि हयरूपधारिणरां देवानामुत्ता वाहां परिवहन्तीति । गाथा-पोडश देव सहस्राणि भवन्ति चन्द्रेषु चैव सूर्येषु । अष्टावेव सहस्राणि एकै कस्मिन् ग्रह विमाने ।।१॥ चत्वारि सहस्राणि नक्षत्रं च भवन्ति एकै कस्मिन् । द्वे चैत्र सहस्रे तारारूपे एकैकस्मिन् ॥२॥ एवं सूर्यविमानानां यावत् तारारूपविमानानाम् नवरमेव देवसंघात इति ॥सू ० २९॥ टीका-'चंदविमाणे णं भंते' चन्द्रविमानं खलु भदन्त ! 'कइदेवताहस्सीओ परिवहंति' कति-कियत्संख्यकानि देव सहस्राणि तत्र देवानामाभियोगिकदेवानां सहस्राणि परिवहन्तिः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562