Book Title: Achar Pradip
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
युवा यो मां विजेष्यते । वीणानादेन वादे तं, वरिष्ये नापरं वरम् ॥१०९॥ ततः पित्रा सपुत्राणां, नरेन्द्रागां चतुर्दिशम् । प्रतिज्ञा ज्ञापिता पुज्या, वरचिन्ता हि दुःसहा ॥११०॥ सगः सर्वतोऽयेते, तत्रयुः क्षत्रिया अपि । वणिग्विषादयोऽप्यन्ये, सर्वसाधारणा स्पृह। ॥१११॥ नवरं तत्कनीवीणानिनादोन्मादमर्दिताः। साहङ्कारं स्पृहाकारं, त्यक्ता जग्मुर्यथागतम् ॥११२॥ तदद्भुतं श्रुतं जातु, खेचरैर्भूमिचारिभिः । रथनूपुरनाथस्य, संसदंतः प्रकाशितम् ॥ ११३ ॥ तनिशम्य विस्मितेषु, खेचरेप्वखिलेष्वपि । प्रोज्जगार पुण्यसारः, प्रेक्ष्यते कौतुकं ह्यदः ॥११४॥ ततो विद्याधरैः सत्रा, सुत्रामेवामरैः परैः। विमानस्थोऽ. समानश्रीजगामोज्जयनीमसौ ॥ ११५॥ पृथुले प्राग्विवादार्थ, मण्डितेऽखण्डमण्डपे । तं वीक्ष्यैव तथाऽऽयान्तं, साऽञ्जसा साञ्जसाऽजनि ॥११६॥ दध्यौ च कोऽप्ययं पुण्यप्राग्भारः स्फारमूर्तिमान् । स्फुटीभूतः प्रभूतश्रीरैष एवं वरोऽस्तु तत् ॥११७॥ नृपादेशात् सा स्ववीणामादायावादयद् यदा । पुण्यसारस्तदाऽवादीद्राक् तां वीणां त्रिदूषणाम् ॥११८॥ तत्रैकं दूषणं दण्डे, परं तन्यां तृतीयकम् । तुंबके दण्डको दग्धोऽशतस्तत्री तु केशयुक् ॥११९॥ अत्यन्तबद्धं तुम्बं च, तेनास्या न तथा ध्वनिः । विशुद्धायां हि वीणायां, ध्वनिरत्यन्तमाधुरी॥१२०॥ अप्यपारं ततः पारम्पर्यमादाय दूषणम् । निश्चिक्ये दण्डके झापश्चित्रीयामास चोच्चकैः ।।१२।। उद्वेष्टय तन्त्री तत्कालं, कालं वालं त्वदर्शयत् । पुण्यसारः स्वयं तुम्बे, गलग्रहमपि स्फुटम् ॥१२२॥ ततो वैद्याधरी वीणां, मुविशुद्धां विधाय सः । स्वपाणिना प्रवीणात्मा, वादयामास सादरम् ॥१२३॥ विश्वाडादकतन्नादरसोल्लासवशंवदा। चित्रस्थेवाखिला पर्षद्, गलउद्यान्तराऽभवत् ॥१२४॥ ततः कुतूहलोल्लासादासांसि कियता ललौ । कियतां कुण्डलाद्यानि, भूषणानि क्षणादसौ ॥१२॥ कन्याया जनकस्यापि, किरीटं कटरी स्फुटम् । कन्यायाः स्फारहारं तु, 'हृदयेन सहाग्रहीत् ॥१२६॥ विपुलं कौशलं किञ्चित्कलाभ्यासास् कलावताम् । यदशाद्विवशाः स्युर्दाक,
JainEducation inik
For Private & Personal use only
Val
jaineibrary.org

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208