Book Title: Achar Pradip
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
आ० प्र० तपआचारे. २ ॥ ८८ ॥
धम्म ७ नाण ८ नाणीणं ९ । आयरिय १० थेरु २१ वज्झाय १२ गणीणं १३ तेरस पयाणि ॥ ८ ॥ अणसायणा य १ भत्ती २ बहुमाणो ३ तहय वनसंजलणा ४ । तित्थयराई तेरस चउग्गुणा हुंति बावन्ना ॥९॥ " अत्र कुलं - नागेन्द्रचान्द्रादि गणः-कौटिकादिः : स्थविरः- सीदतां स्थिरीकरणहेतुः गणाधिपतिः गणिरिति तद्वृत्तौ । प्रवचनसारोद्धारवृत्तौ तु गणी कितोऽपि साधुसमुदायस्याधिपतिः, भक्ति:- उचितोपचाररूपा, बहुमान:- आन्तरः प्रतिबन्धविशेषः वर्णसज्ज्वलना वर्ण:-कीर्त्तिस्तस्य सवना - प्रकाशनं । विनयश्च भवद्वयेऽपि सर्वार्थसिद्धिसाधक इत्यादि ज्ञानाचार द्वितीयभेदव्याख्यायामुक्तमिति विनयः २ ।।
वैयावृत्यं व्याधिपरीषहोपसर्गादौ यथाशक्ति तत्प्रतीकारो ऽन्नपानवस्त्रपात्रमदान विश्रमाणादिभिस्तदानुकूल्यानुष्ठानं च तच्च दशधा, पठन्ति च "आयरिअ १ उवज्झाए २ र ३ तवरसी ४ गिलाण ५ सेहे अ ६ | साहम्मि ७ कुल ८ गण ९ संघ १० संगयं तमिह कायच्वं || १||" स्थविरः तत्र श्रुतपर्यायवयोभेदात् त्रिविधः, श्रुतस्थविरः समवायाङ्गं यावदध्येता, पर्यायस्थविरो यस्य दीक्षितस्य विंशत्यादीनि वर्षाणि, वयःस्थविरः सप्तत्यादिवर्षजीवितः दशमादिविकृष्टतपःकृत् तपस्वी, बहूनां गच्छानामेकजातीयानां समूहः कुलं चान्द्रादि, गच्छस्त्वेकाचार्यप्रणेयः साधुसमूहः । अत्र च गच्छः कुलमध्येऽन्तर्भावितत्वात् पृथनोक्तः, कुलसमुदायो गणः कोटिकादिः, साध्वादिचतुर्भेदः सङ्घः । वैयावृत्यं च विशिष्टतरफलं, यद्वदन्ति - "वे आवञ्च निअ यं करेह उत्तमगुणे घरंताणं । सव्वं किर पडिवाई वेआवच्चं अपडिवाइ || १ || पडिभग्गस्स मयस्स व नासइ चरणं सुअं अगुणगाए । न हु आवश्चज्जि सुहोदयं नासए कम्मं ॥ २ ॥ अत्र प्राग्जन्मनि साधुपञ्चशत्या नित्यान्नपानप्रदानविश्रामणकरणाभिग्रहिणौ भरतबाहुबलिनौ ग्लानस कलवैयावृत्य करणाभिग्रही बसुदेवजीवो नन्दिषेणमहर्षिश्च निदर्शनानि इति वैयावृत्त्यं ३॥
Jain Education International
For Private & Personal Use Only
अफरसर
विनयः वैयावृत्त्यं ॥
॥ ८८ ॥
www.jainelibrary.org

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208