Book Title: Achar Pradip
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 195
________________ ध्यानेन, तदपि द्वेषा-धर्मशुक्लभेदात् , चतुर्णामप्येषां प्रत्येकं चतुर्भेदानां किश्चित्सविस्तरं स्वरूपं चारित्राचारभेदमनोगुप्तिव्याख्याने व्याख्यायि,शुभध्यानं च चिरसमयसंचितानामनन्तानामपि कर्मणां तत्क्षणं क्षयहेतुः, आह च महाभाष्यकृत्-"जह चिरसंचियमिंधणमणलो पवणसहिओ दुअं डहइ । तह कम्भिधणममि खणेण झाणाणलो डहइ ॥ १ ॥ जह वा घणसंघाया खणेण पवणाहया विलिज्जत्ति । झाणपवणावहूआ तह कम्मघणा विलिज्जति ॥२॥ किं च-जोगे जोगे जिणसासणंमि दुवखक बया पजते । इक्किकमि अणंता बटुंना केवली जाया ॥३॥” इत्युक्तेजिनमो यद्यपि यावन्तः सुकृतप्रकारास्तावन्तः सर्वेऽपि मुक्तिहेतवः, परं शुभध्यानानुगता एव, न त्वन्यथा, बहुसमयचारित्राराधकाङ्गारमईकाचार्यादिवत् , शुभध्याने च सति ये केऽप्यङ्गनाधनादयो भवप्रसक्तिहेतवस्तेऽपि मुक्तिहेतव एव स्युः,यदाह-"अहो ध्यानत्य माहात्म्यं, येनैकापि हि कामिनी । अनुरागविरागाभ्या, भवाय च शिवाय च ॥१॥" आर्षेऽपि-“जे जत्तिा य हेऊ भवस्स ते चेव तित्तिा मुक्खे गणणाईआ लोगा दुण्हवि पुन्ना भवे तुल्ला॥१॥"यावन्तश्च सिद्धाः सिध्यन्ति से स्यन्ति च ते सर्वेऽपि नानाविधदुस्तपस्त. पनेऽपि शुभध्यानादेव, शुभध्यानेन च तपो विनापि मरुदेवीभरतचक्रयादयः सिद्धाः, एवं च शुभध्यानमेव मोक्षस्याव्यवधानेनावन्ध्यं साधनं, शेषाणि त्वशेषाण्यपि सुकृत्यानि पारम्पर्येणैवेति सर्वसुकृतेभ्योऽपि सर्वप्रकारैरपि शुभध्यानस्यातिशायिता, यदाहु:-"निर्जराकरणे बाह्यात , श्रेष्ठमाभ्यन्तरं तपः। तत्राप्येकातपत्रत्वं, ध्यानस्य मुनयो जगुः ॥ १॥ ध्यानशतकेऽपि-"संवरविणिज्जराओ योक्खस्स पहो तवो पहो तासि । झाणं च पहागंगं तवस्स तो मुक्खहेऊ तं ॥१॥" अत्र च मरुदेवाभरतचक्रवर्यादित्ययशःप्रभृतिनृपत्यष्टकराजर्षिपृथ्वीचन्द्रप्रसन्नचन्द्रलापुत्रादयस्तत्तत्समयसंनातकेवलज्ञाना ज्ञातानि सर्वज्ञातानि, इति ध्यानं ५। | Jain Education Int-tal For Privale & Personal use only E nw.jainelibrary.org

Loading...

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208