Book Title: Achar Pradip
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
यन्ते, यथा श्रीपद्योतनसूरिशिष्यश्रीमानदेवमूरिरशिवोपशान्त्यै लघुशान्तिस्तवकृत् श्रीमूरिमंत्रदानावसरे तस्यांसयोलक्ष्मीभारत्यौ दृष्ट्वा माऽस्य चारित्रभ्रंशी भूदिति श्यामास्येषु गुरुषु यावज्जीव विकृत्याद्यभिग्रहं जगाह,यदुक्तम्-"भक्तं भक्तस्य लोकस्य,
विकृतोश्चाखिला अपि । आजन्म नैव भोक्ष्येऽहममुं नियममग्रहीत् ॥ १॥” तथा आघाटनगरे भूपसभे द्वात्रिंशद्दि रुपटवादिवि 2 जयप्राप्तहीरलेतिविरुदाः श्रीजगच्चन्द्रसूरयो यावज्जीवमाचाम्लाभिग्रहिणो द्वादशवर्षी तत्तपस्तपनात्तपेति ख्यातिं लेभिरे इति रसत्यागः ४॥
कायक्लेशो वीरासनाधुग्रासनकरणेनापतिकर्मशरीरत्वकेशोल्लुश्चनादिना शास्त्राविरोधेन तनुबाधनरूपो विचित्र:, यदIS वाचि "वीरासणउकुडुआसणाइ लोआइओ अ विन्नेओ । कायकिलेसो संसारनासनिव्वेअहेउत्ति ॥१॥"वीरासणाइसु गुणा
कायनिरोहो दया य जीवे सु । परलोअमई अतहा बहुमाणो चेव अन्नेसि ॥२॥ निस्संगया य पच्छापुरकम्मविवज्जणं च लोअगुणा। दुक्खसहत्तं नरगाइभावणाए अनिव्वेओ ॥३॥"लोकेऽप्युक्तं-"पश्चात्कर्मपुरकर्मजीवहिंसापरिग्रहाः। दोषा ह्येते परित्यक्ताः, शिरोलोचं प्रकुर्वता ॥१॥” ननु परिषहेभ्यः कोऽस्य विशेषः ?, उच्यते, परीषहाः स्वपरक्लेशरूपाः,कायक्लेशस्तु स्वकृतक्लेशानुभवरूप इति विशेषः। कायक्लेशे च निरन्तरं कर्मक्षयादिगुणः, तत एव छद्मस्थजिनजिनकल्पिकादयः प्रायो निरन्तरमूर्ध्वस्था एव तिष्ठन्ति, यदाप्युपविशन्ति तदाप्युत्कटिकादिविषमासने इति कायक्लेशः ५॥
सलीनता-विविक्तशयनासनतेत्यर्थः, सा चैकान्तेऽनाबाधे असंसक्ते स्वीपशुपण्डकविवर्जिते शून्यागारदेवकुलसभापर्वतगुहादीनामन्यतमस्मिन् स्थानेऽवस्थानमेषणीयफलकादिग्रहणं च, यदवाचि- "आरामुजाणाइसु थीपसुपंडगविवजिए ठाणं । फलयाईण य गहणं तह भणिों एसणिजाण।।१॥” इयं च द्रव्यतः, भावतस्तु मनोवाक्कायरूपयोग१कषाये २ न्द्रिय ३ संवृतता,
Jain Educational
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208