Book Title: kavidarpan
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan

View full book text
Previous | Next

Page 128
________________ ६.१०७-१२० सवृत्तिका कविदर्पणः क्रमाद्विषमे त्रिभगुरुद्वयानि अथ समे नो जद्विकं यो द्रुतमध्या । उपचित्रा-आपातलिकाअपरान्तिकेयम् ।। ११५॥ इह किर विसमंमि नो नरा यो। __ नजजरगा समयंमि पुप्फियग्गा ॥ ११६ ॥ किलेह विषमे नो नरौ यः समके नजजरगाः पुष्पिताना ॥ औपच्छन्दसकमेतत् ॥११६॥ निहणससिगुरुमि उज्झिए। दुसुवि इमावरवत्तसन्निया ॥ ११७॥ पुष्पिताग्रेयं द्वयोरपि विषमसमपादयोरन्तैकगुरु(रौ) त्यक्तेऽपरवक्त्रसंज्ञिता ।। वैतालीयमेतत् । आख्यानकीविपरीताख्यानक्यौ तूपजात्यन्तर्गतत्वान्नोक्ते। विषमे नव नगणा लघुगुरू समे दशनगणा गुरुः शिखा । विषमे नगणदशकं गुरुः समे नगणनवकं लघुगुरू खजा। द्वयोरप्यर्धयोर्नव नव नगणाः गुरुः अतिरुचिरेत्यादि ग्रन्थान्तराज्ञेयम् ॥ ११७ ॥ अर्धसमवृत्तप्रकरणम् ॥ अथ विषमवृत्तान्याह । अणुट्टभे गणा सव्वे अनसा आइवन्नाउ । यो चउत्त्थाउ ओयंतटाउ (?) गो लो य वत्तंति ॥ ११८ ॥ अनुष्टुभ्यष्टाक्षरायां जातौ पादस्याद्यादक्षरात्परे नगणसगणवर्जं सर्वे षडपि गणाः स्युश्चतुर्थादक्षरात्परो यगणः पादस्यादावन्ते गुरुलधुर्वा स्याद्यत्र तद्वक्त्रमिति ज्ञेयम् । आद्यांहेराद्यस्थाने ग्लाविति द्वौ भेदो द्वितीये नसवर्जनाच्छेषगणैः षट् । तृतीये च एकः । तुर्ये ग्लाविति द्वौ । अन्योन्याभ्यासे चतुर्विशतिः । प्रत्यंहि चतुर्विशते वादन्योन्याभ्यासे तिस्रो लक्षा एकत्रिंशत्सहस्राः सप्तशतानि षट्सप्ततिः । एवमेषैव संख्या विपुलाभेदेष्वपि ॥ ११८॥ पत्त्थावत्तं समप्पाए यगणे जगणो जइ। तदेव विसमंमि जो समे यो विवरीयाइ ॥ ११९ ॥ समपादयोस्तुर्याक्षराद्यगणस्थाने जगणश्चेत्तदा वक्त्रमेव पथ्यावक्त्राख्यम् । विषमयोस्तुर्याक्षराज्जगणः समयोर्यगणः शेषं तथैव वक्त्रवद्यत्र तद्विपरीतादि विपरीतपथ्यावक्त्रम् ॥ ११९ ॥ तं चेव होइ चवला नगणेण जगणंमि। विउला सा समे जीए किज्जए सत्तमो लहू ॥ १२० ॥ तदेव विपरीतपथ्यावक्त्रं जगणस्थाने नगणेन चपलावत्राख्यम् । विषमयोस्तुर्याक्षरानगणः समयोस्तु यगणः इत्यर्थः । समयोः सप्तमो लघुर्यस्यां क्रियते सा विपुलावक्त्राख्या । न चेयं पथ्या(थ्य)[या] गतार्था । विपुलावक्त्रस्येद(दा)नीमारभ्यमाणत्वात्तां विना तस्यापनुपत्तेः समपादयोः सप्तमलघुनावश्यं भाव्यम् । विषमयोस्तु मादिभिर्यगणस्यापवादं वक्ष्यति । पथ्यायां तु यगण एवावतिष्ठते ॥ १२० ॥

Loading...

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230