________________
६.१०७-१२०
सवृत्तिका कविदर्पणः क्रमाद्विषमे त्रिभगुरुद्वयानि अथ समे नो जद्विकं यो द्रुतमध्या । उपचित्रा-आपातलिकाअपरान्तिकेयम् ।। ११५॥
इह किर विसमंमि नो नरा यो।
__ नजजरगा समयंमि पुप्फियग्गा ॥ ११६ ॥ किलेह विषमे नो नरौ यः समके नजजरगाः पुष्पिताना ॥ औपच्छन्दसकमेतत् ॥११६॥
निहणससिगुरुमि उज्झिए।
दुसुवि इमावरवत्तसन्निया ॥ ११७॥ पुष्पिताग्रेयं द्वयोरपि विषमसमपादयोरन्तैकगुरु(रौ) त्यक्तेऽपरवक्त्रसंज्ञिता ।। वैतालीयमेतत् । आख्यानकीविपरीताख्यानक्यौ तूपजात्यन्तर्गतत्वान्नोक्ते। विषमे नव नगणा लघुगुरू समे दशनगणा गुरुः शिखा । विषमे नगणदशकं गुरुः समे नगणनवकं लघुगुरू खजा। द्वयोरप्यर्धयोर्नव नव नगणाः गुरुः अतिरुचिरेत्यादि ग्रन्थान्तराज्ञेयम् ॥ ११७ ॥ अर्धसमवृत्तप्रकरणम् ॥ अथ विषमवृत्तान्याह ।
अणुट्टभे गणा सव्वे अनसा आइवन्नाउ ।
यो चउत्त्थाउ ओयंतटाउ (?) गो लो य वत्तंति ॥ ११८ ॥ अनुष्टुभ्यष्टाक्षरायां जातौ पादस्याद्यादक्षरात्परे नगणसगणवर्जं सर्वे षडपि गणाः स्युश्चतुर्थादक्षरात्परो यगणः पादस्यादावन्ते गुरुलधुर्वा स्याद्यत्र तद्वक्त्रमिति ज्ञेयम् । आद्यांहेराद्यस्थाने ग्लाविति द्वौ भेदो द्वितीये नसवर्जनाच्छेषगणैः षट् । तृतीये च एकः । तुर्ये ग्लाविति द्वौ । अन्योन्याभ्यासे चतुर्विशतिः । प्रत्यंहि चतुर्विशते वादन्योन्याभ्यासे तिस्रो लक्षा एकत्रिंशत्सहस्राः सप्तशतानि षट्सप्ततिः । एवमेषैव संख्या विपुलाभेदेष्वपि ॥ ११८॥
पत्त्थावत्तं समप्पाए यगणे जगणो जइ।
तदेव विसमंमि जो समे यो विवरीयाइ ॥ ११९ ॥ समपादयोस्तुर्याक्षराद्यगणस्थाने जगणश्चेत्तदा वक्त्रमेव पथ्यावक्त्राख्यम् । विषमयोस्तुर्याक्षराज्जगणः समयोर्यगणः शेषं तथैव वक्त्रवद्यत्र तद्विपरीतादि विपरीतपथ्यावक्त्रम् ॥ ११९ ॥
तं चेव होइ चवला नगणेण जगणंमि।
विउला सा समे जीए किज्जए सत्तमो लहू ॥ १२० ॥ तदेव विपरीतपथ्यावक्त्रं जगणस्थाने नगणेन चपलावत्राख्यम् । विषमयोस्तुर्याक्षरानगणः समयोस्तु यगणः इत्यर्थः । समयोः सप्तमो लघुर्यस्यां क्रियते सा विपुलावक्त्राख्या । न चेयं पथ्या(थ्य)[या] गतार्था । विपुलावक्त्रस्येद(दा)नीमारभ्यमाणत्वात्तां विना तस्यापनुपत्तेः समपादयोः सप्तमलघुनावश्यं भाव्यम् । विषमयोस्तु मादिभिर्यगणस्यापवादं वक्ष्यति । पथ्यायां तु यगण एवावतिष्ठते ॥ १२० ॥