________________
६०
सवृत्तिकः कविदर्पणः
चउसुं सेयवस्स सा ॥ १२१ ॥
सैतवाचार्यमते चतुर्षु पादेषु सप्तमो लघुश्चेद् विपुलावक्त्रम् ॥ १२१ ॥ मो मव्विला ओयंमि ॥ १२२ ॥
ओजयोस्तुर्याक्षराद्यगणं बाधित्वा मगणः समयोस्तु सप्तमो लघुः स्थित एव चेन्मविपुला । ओज इति जातिपक्षे द्वयोरपि पादयोर्ग्रहणम् । व्यक्तिपक्षे पुनरेकस्य प्रथमस्य तृतीयस्य वा । एवं वक्ष्यमाणविपुलास्वपि । तथा च महाकवीनां प्रयोगः ॥ १२२ ॥ [ जातिपक्षे यथा - ]
व्यति (क्ति) पक्षे यथा—
तथा-
सर्वातिरिक्तं लावण्यं बिभ्रती चारुविभ्रमा ।
स्त्रीलोकसृष्टिः सा नूनं न सामान्यस्य वेधसः ॥ १२२·१ ॥
गतः स कालो यत्रासीन्मुक्तानां जन्म वल्लिषु । वर्तन्ते हेतवस्तासां सांप्रतं शुक्तिसंपुटाः ॥ १२२.२ ॥
तथा
वज्रादपि कठोराणि मृदूनि कुसुमादपि । लोकोत्तराणां चेतांसि को हि निर्ज्ञातुमर्हति ॥ १२२.३ ॥
तहेव नो नविउला ॥ १२३ ॥
तथैव विषमांहितुर्याक्षरान्नगणश्चेन्नविपुला ॥ १२३ ॥
जातिपक्षे यथा—
दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः । विरूपाक्षस्य जयिनीस्ताः स्तुवे वामलोचनाः || १२३·१ ॥
व्यक्तिपक्षे यथा—
दीनायां दीनवदनो रुदत्यां साश्रुलोचनः ।
पुरः सखीजनस्तस्याः प्रतिबिम्बमिवाभवत् । १२३.२ ॥
[ चतुर्थोद्देशे
अन्यदा भूषणं पुंसः शमो लज्जेव योषितः । पराक्रमः परिभवे वैयात्यं सुरतेष्विव ॥ १२३.३॥
भोजइ ता भवि (व्वि) उला ॥ १२४ ॥
तथैव भगणश्चेद्भविपुला ॥ १२४ ॥ जातिपक्षे यथा
इयं सखे चन्द्रमुखी स्मितज्योत्स्नावभासिनी । इन्दीवराक्षी हृदयं दंदहीति तथापि मे ।। १२४.१ ॥