________________
१० १२१-१२७]
सवृत्तिकः कविदर्पणः व्यक्तिपक्षे यथा
सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः । शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ॥ १२४.२ ॥
तथा
सर्वाशुचिनिधानस्य कृतघ्नस्य विनाशिनः । शरीरकस्यापि कृते मूढाः पापानि कुर्वते ॥ १२४.३ ।।
रो रविउला उ नेया ॥ १२५ ॥ तथैव रगणश्चेद्रविपुला तु ज्ञेया ॥ १२५ ॥ जातिपक्षे यथा--
वधूभिः पीनस्तनीभिस्तूलीभिः कुङ्कुमेन च ।
कालागरुधूपधूमैहेमन्ते जयति स्मरः ॥ १२५.१ ।। व्यक्तिपक्षे यथा
महाकवि कालिदासं वन्दे वाग्देवतागुरुम् ।
यज्ज्ञाने विश्वमाभाति दर्पणे प्रतिबिम्बवत् ।। १२५.२ ॥ तथा
कामिनीभिः सुखं संगः क्रियते पण्डितैरपि । यदि न स्याद्वारिवीचीचञ्चलं हतजीवितम् ॥ १२५.३ ॥
सो जत्थ सविउला सा ॥ १२६ ॥ तथैव यत्र सगणः सा सविपुला ॥ १२६ ॥ जातिपक्षे यथा
क्षणविध्वंस(सि)नि लोके का चिन्ता मरणे रणे ।
को हि मन्दः सहसैव स्वल्पेन बहु हारयेत् ॥ १२६.१ ॥ व्यक्तिपक्षे यथा
श्रोत्रे सति न शृणोति सति नेत्रे न पश्यति ।
वक्त्रे सत्यपि नो वक्ति पार्थिवस्तेन पार्थिवः ॥ १२६.२ ॥ तथा
कौटिल्यपटवः पापा मायया बकवृत्तयः । भुवनं वञ्चयमानाः वञ्चयन्ते स्वमेव हि ॥ १२६.३ ॥
तो तविउला अक्खिया ॥ १२७ ॥ तथैव तगणश्चेत्तविपुला आख्याता ॥ १२७ ॥ जातिपक्षे यथा
येन हता पादेन सा जातीलुब्धेन मल्लिका । अलेस्तस्य दैवादहो बर्वर्यपि सुदुर्लभा ॥ १२७.१ ॥