________________
सवृत्तिका कविदर्पणः
- [चतुर्थोद्देशे व्यक्तिपक्षे यथा
वन्दे कविं श्रीभारविं लोकसंतमसच्छिदम् ।
दिवा दीपा इवाभान्ति यस्याग्रे कवयोऽपरे ॥ १२७.२ ॥ तथा
लोकवत्प्रतिपत्तव्यो लौकिकोऽर्थः परीक्षकैः ।
लोकव्यवहारं प्रति सदृशौ बालपण्डितौ ॥ १२७.३ ॥ संकीर्णाश्च विपुलाप्रकारा दृश्यन्ते । यथा
क्वचित्काले प्रसरता क्वचिदापत्य निघ्नता । शुनेव सारंगकुलं त्वया भिन्नं द्विषों बलम् ।। १२७.४ ।। तुल्येऽपराधे स्वभाणु(नु) नुमन्तं चिरेण यत् ।
हिमांशुमाशु ग्रसते तन्मदिनः स्फुटं फलम् ॥ १२७.५ ॥ इत्यादयोऽन्ये तु स्वबुद्धयाभ्यूह्याः । सर्वासां च विपुलानां चतुर्थो वर्णः प्रायेण गुरुर्भवतीत्याम्नायः ।। १२७.५ ॥ वक्त्रजातिप्रकरणम् ॥
पढमंमि अट्ठवन्ना
दुइयमि दुवालस निबज्झंति । तइए सोलस चउत्थए वीस जत्थ पाए
तं पयचउरुद्धयनामयं पयंपंति विसमच्छंदं ॥ १२८ ॥ [प्रथमेऽष्टवर्णाः
द्वितीये द्वादश निबध्यन्ते। तृतीये षोडश चतुर्थे विंशतिर्यत्र पादे
___ तत्पदचतुरू नामकं प्रजल्पन्ति विषमं च्छन्दः ॥ १२८ ॥] स्पष्टम् ॥ पदचतुरूवं न्यासभेदाच्चतुर्विंशतिधा। स्थापना। ८,१२,१६,२० । पदचतुरून पदचतुरूर्ध्वप्रकरणमुपलक्ष्यते । यथा पदचतुरूर्ध्वमेव प्रतिपादमादौ द्विगुरुकं ततः सर्वलध्वक्षरं यद्वा प्रतिपादमादावन्ते च द्विगुरुकं शेषं सर्वलघुकं च प्रत्यापीडः । पदचतुरूर्ध्वमेव एकद्विगुरुकं शेषं सर्वलघुकं आपीडः । आपीड एवाद्यस्यांद्वेर्द्वितीयेनांहिणा व्यत्यये कलिका। तृतीयेन लवली । तुर्येणामृतधारा । पदचतुरूर्वप्रकरणम् ॥ १२८॥
सजसा लहू पढमयंमि
नसजगुरुणो दुइज्जए। हुंति भनजलगुरू तइए
_तुरिए सजा सजगुरू य उग्गया ॥ १२९ ॥ [सजसाः लघुः प्रथमे
नसजगुरवो द्वितीये। भवन्ति भनजलगुरवस्तृतीये
तुरीये सजी सजगुरवश्व उद्गता ॥ १२९ ॥