Book Title: Yogshatakam
Author(s): Haribhadrasuri, Punyavijay
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 8
________________ द्वितीयः किल खण्डितापूर्णलब्धत्वाद् अस्मत्कल्पिताभिधानो ब्रह्मसिद्धान्तसमुच्चयनामा ग्रन्थोऽस्मिन् ग्रन्थाङ्के प्रकाश्यते । अयं किल ग्रन्थोऽणहिल्लपुरपत्तनीयशतशःखण्डीभूततालपत्रीयग्रन्थराशिमध्यात् शीर्णविशीर्णतालपत्रखण्डरूपेण मयैव समुपलब्धो मम पार्श्व एवं वर्तते । इयं हि प्रतिः प्रतिपत्रं सञ्जातद्वित्रखण्डा द्वात्रिंशत्पत्रात्मिकाऽपूर्णा. ४२३ श्लोकपर्यन्तमासादिताऽस्ति । प्रतिपत्रं चतस्रः पञ्च वा पङ्क्तयो वर्त्तन्ते । प्रतिपङ्क्ति पञ्चचत्वारिंशद् यावदष्टचत्वारिंशदक्षराणि लिखितानि निरीक्ष्यन्ते । प्रतिरिय प्रायः शुद्धैव वर्तते तथापि क्वचित् कचिदशुद्धयोऽपि दृश्यन्ते । अस्याः प्रतेरन्तिमं पत्रं नोपलब्धमिति निश्चिततया न ज्ञायते-कस्मिन् समये लिखितोऽयं ग्रन्थः ? इति, तथापि लिपितालपत्रीयजातिलेखन-पद्धत्याद्यवलोकनेन इयं प्रतिः द्वादश्यां शताब्यां लिखितेत्यनुमीयते । प्रतिरियमायाम-पृथुलत्वे ११॥ x १||| इंचप्रमाणा वर्तते । अस्याः प्रतेः द्वादशं पत्रं सर्वथैव नोपलब्धम् । तथा ७ तः १०, २२, २४, २६, २९ तः ३२ पत्रागामुत्तरविभागो नष्ट इति नोपलब्धः। अस्याः शीर्णविशीर्णखण्डखण्डीभूतापूर्णप्रतेराधारेणास्य ब्रह्मसिद्धान्तसमुच्चयग्रन्थस्य सम्पादनं संशोधनं च विहितमस्ति । अस्यापि ग्रन्थस्य वैदुष्यपूर्णा प्रतिकृतिः (प्रेसकॉपी) पण्डितश्रीअमृतलालेनैवातिसावधानतया महता श्रमेण निर्मिताऽस्ति, येनास्यापि सम्पादने संशोधने च समधिकं सौकर्यमजनि। किञ्च -अस्य ग्रन्थयुगलस्य संशोधन केवलं मयैव विहितमिति नास्ति । किन्तुपण्डितश्रीसुखलालजित्-ला० द० भा० सं० विद्यामन्दिरमुख्यनियामकदलसुख मालवणिया-पण्डितअमृतलाल-मुनिप्रवरश्रीजम्बूविजयजी-प्रज्ञांशमुनिवरश्रीकान्तिविजयप्रभूतिभिः स्थानस्थानेषु संशोधन संसूचनं च विहितमस्ति । अपि च-पण्डितश्रीअमृतलालेन तु प्रतिकृतिविधानादारभ्य प्रुफपत्राद्यवलोकन-परिशिष्टविधानादिसमग्रकार्येषु दत्तचित्ततया साहाय्यं विहितमस्तीति समवधारयन्तु विद्वांसः । ___ ग्रन्थयुगलमप्येतद् योगविषयकं वर्तत इति तन्मार्गसिसाधयिषवो जिज्ञासवो वा मुनिवरा विद्वांसश्चावश्यमेवाऽऽसादयिष्यन्ति स्वेप्सितमेतद्ग्रन्थयुगलावगाहनेन । ग्रन्थकारः स्वोपज्ञटीकासमलङ्कृतस्यास्य योगशतकाख्यप्रकरणस्य प्रणेता याकिनीमहत्तरासूनुराचार्यश्रीहरिभद्रसूरिरैवेति तत्पुष्पिकाद्यवलोकनेन स्पष्टमेव ज्ञायते । प्रस्तुतग्रन्थकर्तुराचार्यस्य सत्तासमय-निवासस्थान-जीवन-पाण्डित्य-ग्रन्थनिर्माणादिविषये डा. याकोबी Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 144