Book Title: Yogshatakam
Author(s): Haribhadrasuri, Punyavijay
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 7
________________ ॥ जयन्तु वीतरागाः ॥ प्रस्तावना। ला० द० भारतीयसंस्कृतिविद्यामन्दिरग्रन्थमालायाश्चतुर्थग्रन्थाङ्करूपेण याकिनीमहत्तरासूनुश्रीहरिभद्रसूरिप्रणीतं स्वोपज्ञटोकासहितं 'योगशतकमकरणम्' तथा खण्डितापूर्णरूपेण लब्धत्वाद् अज्ञातग्रन्थ-ग्रन्थकाराभिधानो ग्रन्थविषयविभागावलोकनेन श्रीहरिभद्रसूरिप्रणीतः 'ब्रह्मसिद्धान्तसमुच्चयः' इति अस्माभिः परिकल्पिताभिधानो ग्रन्थश्चेति प्रकरणयुगलं प्रकाश्यते । तत्र योगशतकं मूलमात्रं डॉ० झवेरी इन्दुकलाभगिन्या पाण्डित्यपूर्णगूर्जरगिरानुवादेन विस्तृतप्रस्तावनया च सह सम्पाद्य प्रसिद्धि प्रापितम् । साम्प्रतं तदेव अद्यावश्यज्ञातया स्वोपज्ञटीकया समलङ्कतं प्रसिद्धि नीयते । अस्य किलैकैव ताडपत्रोपरि लिखिताऽतिप्राचीना शुद्धप्राया प्रतिः कच्छदेशान्तर्गतमांडवीनगरस्थखरतरगच्छीयजैनज्ञानभाण्डागारे सुरक्षिताऽऽसीत् । सा च प्रतिस्तद्भाण्डागाररक्षक-मांडवीजैनश्रीसहमान्यमहानुभाव-श्रेष्टिवर्यश्रीमोहनलाल पोपटभाई शाहद्वारा समासादिता । अस्याः प्रते: षट्त्रिंशत् पत्राणि । प्रतिपत्रं ताडपत्रपृथुलत्वानुसारेण कस्मिंश्चित् पत्रे चतस्रः यावत् कस्मिंश्चित् पत्रे समापि पङ्क्तयो वर्तन्ते । प्रतिपङ्क्ति कचित् षट्षष्टिः सप्ततिः यावत् कचिदशीत्यक्षराण्यपि लिखितानि दृश्यन्ते । प्रतिरियं मध्ये छिद्रयुता विभागद्वयेन च लिखिता वर्तते । आयाम-पृथुलवे किलास्याः प्रतेः १३।४ २। इंचप्रमितमस्ति । प्रतिरिय केनापि विदुषा मुनिप्रवरादिना साद्यन्तं वाचिता संशोधिता चेति शुद्धप्राया क्वचित् कचिच्च टिप्पणीयुताऽपि वरीवृत्यते । अस्याः प्रतेः प्रान्तभागे “ संवत् ११६५ फाल्गुन सुदि ८ लिखितेति ” इतिरूपा लेखनसमयावेदिका पुम्पिका वर्तते इति अस्याः प्रतेः लेखनकाल: ११६५ वर्षरूपः स्पष्टमेव ज्ञायते। ... शुद्धप्रायाया अस्या एकस्या एव प्राचीनतालपत्रीयप्रतेराधारेणास्य खोपज्ञटीकाविभूषितस्य योगशतकप्रकरणस्य सम्पादनं संशोधनं च विहितमस्ति । यद्यपि प्रतिरिय सामान्यभावेन शुद्धरूपा वर्तते तथाप्यनेकानेकेषु स्थलेष्वशुद्धयो वर्तन्त एव इत्यतः तत्र तत्र स्थलेषु तत्तद्विषयकग्रन्थाद्याधारेणास्य ग्रन्थस्य सुचारुसंशोधनकृते प्रयतितमस्ति । ग्रन्थस्यास्य पाण्डित्यपरिपूर्णा प्रतिकृतिः( प्रेस कॉपी) भोजककुलमण्डनस्य गृहस्थभावेऽपि प्राप्तात्मरमणताधर्मस्य धर्मात्मनो गिरधरलालस्य पौत्रेण तथा आत्मरणतानिष्ठस्य धर्मभावनावासितान्तःकरणस्य मोहनलालस्य नन्दनेन अमृतलालपण्डितेनातिसावधानतया विहितेत्यस्य ग्रन्थस्य सम्पादने संशोधने चातिसौकर्य सञ्जातम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 144