Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 11
________________ विशेषा० ॥८०९॥ Jain Education Internatio यदर्थान्तरभूतो धर्मः स तद्विनाशे नश्यत्येव यथा पटादिधर्मः शुक्लत्वादिः । ततो भूतैरेव सह प्रागेव नष्टस्य चैतन्यस्य कुतो भवान्तरगमनम् १ इति ।। १९५२ ।। अथ भूतेभ्योऽर्थान्तरं चैतन्यं, तथापि न परलोक इत्याह अह वि तदत्थंतरया न य निच्चत्तणमओ वि तदवत्थं । अनलस्स वाऽरणीओ भिन्नस्स विणासधम्मस्स ॥१९५३ ॥ अथापि तदर्थान्तरता भूतेभ्योऽर्थान्तरता चैतन्यस्याभ्युपगम्यते, नन्वतोऽपि तदवस्थं भवान्तरगामित्वाभावलक्षणं दूषणम्। चशब्दो यस्मादर्थे, यतोऽर्थान्तरभूतस्यापि चैतन्यस्य न नित्यत्वम् । कथंभूतस्योत्पत्तिमत्वेन विनाशधर्मकस्य कस्य यथाऽनित्यत्वम् ? इत्याहअनलस्य । कथंभूतस्य १ । भिन्नस्य । कस्य ? । अरणीतोऽरणेः । इदमुक्तं भवति भूतेभ्योऽर्थान्तरत्वेऽप्यनित्यं चैतन्यम्, उत्पत्तिधर्मकत्वात्, अरणिकाष्ठोत्पन्नतद्भिन्नानलवदिति यच्चानित्यं तत् किमपि कालं स्थित्वाऽनलवदत्रापि ध्वंसते, इति न तस्य भवान्तरयायित्वम्, अत इत्थमपि न परकोल सिद्धिरिति । १९५३ ॥ अथ प्रतिपिण्डं भिन्नानि भूतधर्मरूपाणि बहूनि चैतन्यानि नेष्यन्ते, किन्त्वेक एव समस्तचैतन्याश्रयः सर्वत्रिभुवनगतो 'निष्क्रि यथात्माऽभ्युपगम्यते यत उक्तम् " एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥ १ ॥ ननु तथापि न परलोकसिद्धिरिति दर्शयन्नाह अह एगो सव्वगओ निक्किरिओ तहवि नत्थि परलोओ। संसरणाभावाओ वोमस्स व सव्वपिंडेसु ॥ १९५४॥ अथैकः सर्वगतो निष्क्रियश्वात्माऽभ्युपगम्यते, ननु तथापि न परलोकगमनसिद्धिः, तस्यात्मनः सर्वेषु गो-मनुष्यादिपिण्डेषु सर्वगतत्वेन निष्क्रियत्वेन च संसरणाभावात्, व्योमवदिति ।। १९५४ ।। इतोऽपि च परलोकाशङ्का । कुतः १ इत्याह १०२ १ अथापि तदर्थान्तरता न च नित्यत्वमतोऽपि तदवस्थम् । अनलस्येवाऽरणितो भिन्नस्य विनाशधर्मणः ॥ १९५३ ॥ २ घ. छ. निःसंगताक्रिय' । ३ अर्थकः सर्वगतो निष्क्रियस्तथापि नास्ति परलोकः । संसरणाभावाद् व्योम्न इव सर्वपिण्डेषु || १९५४ ॥ For Personal and Private Use Only aer बृहद्वत्तिः। ||८०९॥ Ww.janbrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 202