________________
विशेषा०
॥८०९॥
Jain Education Internatio
यदर्थान्तरभूतो धर्मः स तद्विनाशे नश्यत्येव यथा पटादिधर्मः शुक्लत्वादिः । ततो भूतैरेव सह प्रागेव नष्टस्य चैतन्यस्य कुतो भवान्तरगमनम् १ इति ।। १९५२ ।।
अथ भूतेभ्योऽर्थान्तरं चैतन्यं, तथापि न परलोक इत्याह
अह वि तदत्थंतरया न य निच्चत्तणमओ वि तदवत्थं । अनलस्स वाऽरणीओ भिन्नस्स विणासधम्मस्स ॥१९५३ ॥
अथापि तदर्थान्तरता भूतेभ्योऽर्थान्तरता चैतन्यस्याभ्युपगम्यते, नन्वतोऽपि तदवस्थं भवान्तरगामित्वाभावलक्षणं दूषणम्। चशब्दो यस्मादर्थे, यतोऽर्थान्तरभूतस्यापि चैतन्यस्य न नित्यत्वम् । कथंभूतस्योत्पत्तिमत्वेन विनाशधर्मकस्य कस्य यथाऽनित्यत्वम् ? इत्याहअनलस्य । कथंभूतस्य १ । भिन्नस्य । कस्य ? । अरणीतोऽरणेः । इदमुक्तं भवति भूतेभ्योऽर्थान्तरत्वेऽप्यनित्यं चैतन्यम्, उत्पत्तिधर्मकत्वात्, अरणिकाष्ठोत्पन्नतद्भिन्नानलवदिति यच्चानित्यं तत् किमपि कालं स्थित्वाऽनलवदत्रापि ध्वंसते, इति न तस्य भवान्तरयायित्वम्, अत इत्थमपि न परकोल सिद्धिरिति । १९५३ ॥
अथ प्रतिपिण्डं भिन्नानि भूतधर्मरूपाणि बहूनि चैतन्यानि नेष्यन्ते, किन्त्वेक एव समस्तचैतन्याश्रयः सर्वत्रिभुवनगतो 'निष्क्रि यथात्माऽभ्युपगम्यते यत उक्तम्
" एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥ १ ॥ ननु तथापि न परलोकसिद्धिरिति दर्शयन्नाह
अह एगो सव्वगओ निक्किरिओ तहवि नत्थि परलोओ। संसरणाभावाओ वोमस्स व सव्वपिंडेसु ॥ १९५४॥ अथैकः सर्वगतो निष्क्रियश्वात्माऽभ्युपगम्यते, ननु तथापि न परलोकगमनसिद्धिः, तस्यात्मनः सर्वेषु गो-मनुष्यादिपिण्डेषु सर्वगतत्वेन निष्क्रियत्वेन च संसरणाभावात्, व्योमवदिति ।। १९५४ ।।
इतोऽपि च परलोकाशङ्का । कुतः १ इत्याह
१०२
१ अथापि तदर्थान्तरता न च नित्यत्वमतोऽपि तदवस्थम् । अनलस्येवाऽरणितो भिन्नस्य विनाशधर्मणः ॥ १९५३ ॥ २ घ. छ. निःसंगताक्रिय' । ३ अर्थकः सर्वगतो निष्क्रियस्तथापि नास्ति परलोकः । संसरणाभावाद् व्योम्न इव सर्वपिण्डेषु || १९५४ ॥
For Personal and Private Use Only
aer
बृहद्वत्तिः।
||८०९॥
Ww.janbrary.org