________________
विशेषा
बृहद्वति।
॥८१०॥
इहलोगाओ व परो सुराइलोगो न सो वि पञ्चक्खो । एवं पि न परलोगो सुब्वइ य सुईसु तो सका ॥१९५५॥
अथवा, इहलोकापेक्षया सुर-नारकादिभवः परलोक उच्यते, स च न प्रत्यक्षो दृश्यते, अत एवमपि न परलोकः सिध्यति, श्रूयते चासौ श्रुतिषु शास्त्रेषु, ततस्तच्छङ्का-किमस्ति नास्ति वा ? । इति दर्शितः पूर्वपक्षः ॥ १९५५ ॥
अत्र प्रतिविधीयते- यदुक्तम्- 'भूतधर्मश्चैतन्यम्' तत्राह
भूइंदियाइरित्तस्स चेयणा सो य दव्वओ निच्चो । जाइस्सरणाईहिं पडिवज्जसु वाउभूइ व्व ॥ १९५६ ॥
इह भूतेन्द्रियातिरिक्तस्य पूर्वाभिहितानुमानादिप्रमाणसिद्धस्यात्मन एव संबन्धिनी चेतना मन्तव्या, न तु भूतधर्मः । स चात्मा जातिस्मरणादिहेतुर्द्रव्यतो नित्य इति वायुभूतिरिव प्रतिपद्यस्व । अतो नैकान्तानित्यत्वपक्षोक्तो दोषः, पर्यायत एवाऽस्यानित्यत्वादिति भावः ।। १९५६ ॥
अथैकः सर्वगतो निष्क्रियश्चात्मा कस्माद् नेष्यते ? इत्याह--- नै य एगो सव्वगओ निक्किरिओ लक्खणाइभेआओ । कुंभादउ व्व बहवो पडिवज तमिंदभूइ व्व ॥१९५७॥
न चास्माभिरक आत्मेष्यते, किन्तु बहवः- अनन्ताः । कुतः ? । लक्षणभेदात् । उपयोगलक्षणो हि जीवः, स चोपयोगो रागद्वेष-कषाय-विषयाध्यवसायादिभिर्भिद्यमान उपाधिभेदादानन्त्यं प्रतिपद्यत इत्यनन्ता जीवाः, लक्षणभेदात् , घटादिवदिति । तथा, न सर्वगत आत्मा, किन्तु शरीरमात्रव्यापकः, तत्रैव तद्गुणोपलब्धेरित्यादिशब्दोपात्तो हेतुः, स्पर्शनव दिति दृष्टान्तश्च । एवं न निष्क्रिय आत्मा, भोक्तृत्वात् , देवदत्तवदिति । तदेतदिन्द्रभूतिप्रथमगणधरवत् प्रतिपद्यस्वेति ॥ १९५७ ।।
___ यदुक्तम्- 'देव-नारकाणां प्रत्यक्षाविषयत्वात् संदिग्धः परलोकः' इति; तदयुक्तम् , मौर्या-ऽकम्पितवादयोर्देव-नारकाणां साधितत्वात् , इति दर्शयन्नाहइहलोगाओ य परो सोम्म ! सुरा नारगा य परलोओ। पडिवज मोरिआ-कंपिउ व्व विहियप्पमाणाओ ॥१९५८॥
१ इहलोकाद् वा परः सुरादिलोको न सोऽपि प्रत्यक्षः । एवमपि न परलोकः श्रूयते च श्रुतिषु ततः शङ्का ॥ १९५५ ।। २ भूतेन्द्रियातिरिक्तस्य चेतना स च दव्यतो नित्यः । जातिस्मरणादिभिः प्रतिपद्यस्व वायुभतिरिव ।। १९५६ ।। ३न चैकः सर्वगतो निस्कियो लक्षणादिभेदात् । कुम्भादय इव बहवः प्रतिपद्यस्व तदिन्दभूतिरिव ।। १९५७ ॥ ४ इहलोकाच परः सौम्य | सुरा नारकाश्च परलोकः । प्रतिपद्यस्व मौया-कम्पिताविव विहितप्रमाणात् ।। १९५८।।
ME
८१०॥
शEBAR
ANITORADABAAPAN
Jan Education Internati
For Personal and Price Use Only