________________
बृहद्वत्तिः ।
विशेषा०
८१२॥
गतार्था ॥ १९५८॥ अथ प्रेरकः प्राहजीवो विण्णाणमओ तं चाणिचं ति तो न परलोगो। अह विण्णाणादण्णो तो अणभिण्णो जहागासं ॥१९५९॥ इत्तो च्चिय न स कत्ता भोत्ता य अओ विनत्थि परलोगो। जं च न संसारी सो अण्णाणा-ऽमुत्तिओ खं व ॥१९६०॥
व्याख्या-जीवो विज्ञानमयस्तावद् युष्माभिरिष्यते विज्ञानादभिन्न इत्यर्थः । तच्च विज्ञानमनित्यं विनश्वरम् , अतस्तदभिन्नस्य जीवस्यापि विनश्वरत्वाद् न भवान्तरगमनलक्षणः परलोकः । अथ विज्ञानादन्यो जीवस्ततोऽनित्ये विज्ञाने जीवाद् भिन्ने सति स्वयं नित्योऽसाविति न परलोकाभावः। यद्येवम् , तर्हि अनभिज्ञो जीवः, विज्ञानादन्यत्वात् , आकाशवत् , काष्ठादिवद् वा । अत एव च नित्यत्वादेवासी जीवो न कर्ता, नापि भोक्ता । नित्यस्य कर्तृत्वाद्यभ्युपगमे हि सर्वदैव तद्भावप्रसङ्गः, तस्य सदैवैकरूपत्वात् । कर्तृत्वाभावे च न परलोकः, अकृतस्य तस्याभ्युपगमे सिद्धानामपि तत्मसङ्गात् । भोक्तृत्वाभावेऽपि न परलोकः, अभोक्तुः पर लोकहेतुभूतकर्मभोगायोगात् । इतोऽपि च न परलोकः । कुतः ? इत्याह- 'जं चेत्यादि' यस्माच नासौ संसारी, नास्य ज्ञानाद् भिन्नस्य जीवस्य भवाद् भवान्तरगमनलक्षणं संसरणमस्तीत्यर्थः । कुतः! इत्याह- स्वयमज्ञानत्वात् , काष्ठखण्डवत् । तथा, अमूर्तत्वात् , आकाशवदिति ॥ १९५९ ॥ १९६० ॥
अनोत्तरमाह-- __ मैन्नसि विणासि चेओ उप्पत्तिमदादिओ जहा कुंभो। नणु एवं चिय साहणमविणासित्ते विसे सोम्म!॥१९६१॥
ननु 'जीवो विण्णाणमओ तं चाणिचं' इति ब्रुवाणो नूनं त्वमेवं मन्यसे- विनाशि विनश्वरं चेतश्चेतना चैतन्यं विज्ञानमिति यावत् । उत्पत्तिमत्त्वादिति हेतुः। यथा कुम्भ इति दृष्टान्तः । आदिशब्दात् 'पर्यायत्वात्' इत्यादिकोऽपि हेतुर्वक्तव्यः । यो हि पर्यायः स सर्वोऽप्यनित्यः, यथा स्तम्भादीनां नव-पुराणादिपर्यायः। ततश्चानित्याच्चैतन्यादभिन्नत्वे जीवस्याप्यनित्यत्वात् परलोकाभाव इति तवाभिप्रायः। न चायं युक्तः, यतो हन्त ! नैकान्तेन विज्ञानमनित्यम् , यतोऽविनाशित्वेऽपि 'से' तस्य विज्ञानस्यैतदेव सौम्य ! त्वदुक्तं साधनं प्रमाण
१जीवो विज्ञानमयस्तच्चानित्यमिति ततो न परलोकः । अथ विज्ञानादन्यस्ततोऽनभिज्ञो यथाऽऽकाशम् ।। १९५९ ॥
इत एव न स कर्ता भोक्ता चातोऽपि नास्ति परलोकः । यच्च न संसारी सोऽज्ञाना-ऽमूर्तितः खमिव ॥१९६०॥ २ घ. छ. 'त इत्यत आहे'। ३ मन्यसे विनाशि चेत उत्पत्तिमदादितो यथा कुम्भः । नन्वेतदेव साधनमविनाशित्वेऽपि तस्य सौम्य ! ॥१९६१॥४ गाथा १९५९ ।
॥८१