Book Title: Vallabhiya Laghukruti Samucchaya
Author(s): Vinaysagar
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 105
________________ ४६ श्रीश्रीवल्लभीय-लघुकृति-समुच्चयः अव्ययम्, बिभ्रता न धरता चित्ते इति गम्यते। पिशाचादिना दुष्टदेवेन नाधिष्ठितेन, किन्तु जिनसेवारतत्वात् जिनाधिष्ठितेन इत्यर्थः । सत्त्वं द्रव्ये गुणे चित्ते व्यवसायस्वभावयोः। पिशाचादौ' [अनेकार्थ. २/५५३] इति। यद् वा, सत्त्वम्अतिशयवद्वीर्यम् अवष्टम्भम् इति यावत्। जिननामध्यानरूपम् अवष्टम्भम् आबिभ्रता धरता। पतितेऽप्यनिष्टे कष्टे जिननामध्यानावष्टम्भधारिणा नान्यतीर्थिकदेवावष्टम्भधारिणा इत्यर्थः । आम् इति अव्ययम् अवधारणे। अथ विश्वतीर्थाधिपाः ! सम्बोधनपदैविशेष्यन्ते-कथम्भूताः हे विश्वतीर्थाधिपाः ! भव्यदायक्रमाः।* [भव्यम् फलं स्वर्गापवर्गासंख्यसुखप्रापणलक्षणं, तस्य दायः=दानं येषां ते भव्यदायाः। एवम्विधाः क्रमा: शास्त्राणि आचाराङ्गादीनि येषां ते भव्यदायक्रमाः । भव्यं तु फले [अनेकार्थ. २/३७७] इत्येनकार्थः । दायो दाने [अनेकार्थ. २/३६९] इति वचनात् । 'क्रमः कल्पांह्निशक्तिषु' [अनेकार्थ. २/३२०] इति। 'कल्पो न्यायः शास्त्रं वा' [ ] इति तद्वृत्तिः । यद् वा] * भवः= श्रेयो विद्यते येषां ते भविनः । मुक्तिप्राप्तत्वात् शाश्वतानन्तकल्याणभाजः इत्यर्थः । 'भवः सत्ताप्ति-जन्म। रुद्रे श्रेयसि' [अनेकार्थ. २/५४५] इत्युक्तेः । दाय: सोल्लुण्ठभाषणम् । 'दायो दाने यौतकादिधने सोल्लुण्ठभाषणे' [अनेकार्थ. २/३६९] इत्यनेकार्थः । दायस्य क्रमः परिपाटी दायक्रमः। इह क्रमग्रहणाद् असभ्योद्भावनाऽप्रीतिकारिगालिराल्यादिग्रहः । नास्ति दायक्रमो येषां ते अदायक्रमाः, अमर्मवेधिन इत्यर्थः । तीर्थङ्करा हि परमर्मोद्घाटनं न कुर्वन्तीति वचनातिशयो दर्शितः । भविनश्च ते अदायक्रमाश्च भव्यदायक्रमाः, तदाऽऽमन्त्रणे हे भव्यदायक्रमाः ! पुनः कथम्भूताः हे विश्वतीर्थाधिपाः? विश्वतीर्थाधिपाः, तीर्थम् जलं कारणे कार्योपचारात् जलस्नानम् इत्यर्थः, तत्र आधि: व्यसनं येषां ते तीर्थाधयः, अर्थात् वारिभद्रकादयो भागवतविशेषाः जलस्नानमोक्षाङ्गीकारकाः कुतीर्थिकाः, ते हि शीतोदकसेवनेन मोक्षं प्रवदन्ति । यथा उदकं बाह्यमलम् अपनयति एवं आन्तरमपि। वस्त्रादेश्च यथा उदकात् शुद्धिरुपजायते तथा अन्तराऽपि शुद्धिरुदकादेव इति। विश्वं लोकं तीर्थाधिभ्यो जलसेचनमोक्षाङ्गीकारकेभ्यो वारिभद्रकादिम्यः सदुपदेशेन पान्ति रक्षन्ति ये ते विश्वतीर्थाधिपाः । अत्र विच् प्रत्ययः, सोमपा * चिह्नान्तर्गतांशो मूलप्रतौ हरितालितम्। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188