Book Title: Vallabhiya Laghukruti Samucchaya
Author(s): Vinaysagar
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 142
________________ प्रश्नोत्तरैकषष्टिशतकाव्यम् ८३ तेषां गतशुभधियां, कुत्र कस्यां विषये का स्याद् = भवेत् ? कथं भूतानां शुभधियाम् ? अभियोगविधायिनाम् अभियोगम् उद्यमं विदधते इत्येवं शीलाः, अभियोगविधायिनस्तेषाम् आजीविका- ये स्वामिकार्येषु उत्साहकारिणामित्यर्थः । उत्साहः प्रगल्भता। अभियोगोद्यमौ प्रौढिः [अभिधा. २/ २१३-१४] इत्यभिधानचिन्तामणिः। इति प्रश्ने, उत्तरं - दासता भुवि दासत्वं भूमौ इत्यर्थः । यद्वा, गम्लृ गतौ [ पा. धा. १०५१] गत्यर्था ज्ञानार्था इति न्यायात्, गमनं गतं ज्ञानम् अर्थात् मोक्षविषयं मोक्षफलं चेत्यर्थः । नपुंसके भावे क्तः [पा. सू. ३/३/११४] इति क्तः । यदमरः - मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोः [अमर. २ / ५ / ६ ] । गतेन ज्ञानेन शुभधी:- शुभकारिणी धीर्बुद्धिर्येषां ते शुभधियः तेषां गतशुभधियां परमज्ञानवतामित्यर्थः । कुत्र का स्यात् ? कथं भूतानां गतशुभधियाम् अभियोगविधायिनाम् अभियोगः-उद्यमः स चार्थतो मोक्षाय सदाचारविधाने तं विदधते इत्येवंशीलाः अभियोगविधायिनः= सदाचाराचरणपरायणाः इत्यर्थस्तेषाम् इति प्रश्ने, उत्तरं - दासता भुवि दासस्य पात्रस्य भावो दासता = दानयोग्यता इत्यर्थ भुवि = धरित्र्यां, दासः शूद्रे दानपात्रे भृत्यधीवरयोरपि इति महेश्वरः [विश्वप्रकाश स द्विकम् - ३] हरिणीच्छन्द:, तथा च तल्लक्षणं रसयुगहयैर्नसौ म्रौ स्लौ गो यदा हरिणी तदा । [वृत्तरत्नाकर ३ / ९०] मन्थानजातिः ॥ १० ॥ या न Jain Education International वि भु ता स दा म स प्रतिवादिद्विरदभिदे गुरुणेह किमक्रियन्त के कस्य ? | उरशब्दः कल्याणदबलहिमशृङ्गान् वदति कीदृक् ? ॥ ११ ॥ || आदिश्यन्तरवविशिखानुः ॥ For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188