Book Title: Vallabhiya Laghukruti Samucchaya
Author(s): Vinaysagar
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 143
________________ ८४ श्रीश्रीवल्लभीय-लघुकृति-समुच्चयः व्याख्या:- प्रतिवादीति। इह विवादसमये विवादविषये वा गुरुणा धर्मोपदेशकेन प्रतिवादिद्विरदभिदे प्रतिकूला: वादिनः प्रतिवादिनः त एव द्विरदा-हस्तिनस्तेषां भिद्-भेदस्तस्यै प्रतिवादिद्विरदभिदे। कस्य के किम् अक्रियन्त व्यधीयन्त ? भिदिर विदारणे [पा. धा. १५३२] रुधादिः, भावे क्विप्। इति प्रश्ने, उत्तरम्- आदिश्यन्तरवविशिखानुः, आदिश्यन्त अकथ्यन्त रवाः शब्दा एव विशिखा: =बाणाः रवविशिखाः, नु: = पुरुषस्य प्रतिवादिद्विरदभेदनाय पुरुषस्य शब्दबाणा: आदिष्टा इत्यर्थः।। उरशब्दः कीदृक् ? कल्याणदबलहिमशृङ्गान् वदति कथयति? इति प्रश्ने, उत्तरम्- आदिश्यन्तरवविशिखानुः आदौ=धुरि शि:= तृतीयस्वरोपधस् तालव्यशकारो यस्मिन् स: आदिशिः । वश्च विश्च शिश्च रवश्च वविशिखाः चतुर्भिरक्षरैर्द्वन्द्वे, अन्तरे विचाले वविशिखाः यस्मिन् स अन्तरवविशिखः । न विद्यते उ:-उकारो यस्मिन् सः अनुः, भावे अत्र नम्। उर इत्यक्षरद्वयस्य आदौ तृतीयस्वरतालव्यशकार-चतुष्टयकरणे विचाले आद्यस्वरदन्तौष्ठ्य १ तृतीयस्वरदन्तौष्ठ्य २ तृतीयस्वरतालव्यशकार ३ प्रथमस्वरकवर्गद्वितीय ४ क्षरकरणे उकाराभावे च। ततः आदिशिश्चासौ अन्तरवविशिखश्चासौ अनुश्चेति त्रिभिः कर्मधारये, आदिश्यन्तरवविशिखानुः । तत: शिवर १ शिविर २ शिशिर ३ शिखर४ इति शब्दचतुष्टयसिद्धिः तदर्थश्चायम्। १. शिवं कल्याणं राति-ददाति यः सः शिवरः, आतोऽनुपसर्गे कः [पा. सू. ३/२/३] इति कः, कल्याणं मङ्गलं ददातीति कल्याणदम्। २. शिविरं-सैन्यावासः क्लीबलिङ्गः, यदमर:- निवेशः शिविरं षण्ढे [अमरकोष २/८/३३] इति, सैन्यसैन्यावासयोरभेदविवक्षायां शिविरं, बलं सैन्यम् इत्यर्थः, वदति। ३. शिशिरः पुंक्लीबलिङ्गः, हिम-तुषारं वदति, शिशिरस्तु ऋतौ पुंसि तुषारे शीतलेऽन्यवत्, इति श्रीधरः [विश्वलोचनकोश र-तृतीय २३०] । ४. शिखर: पुंक्लीबलिङ्गः, शृङ्ग-पर्वताग्रं वदति, यदमर:-कूटोऽस्त्री शिखरं शृङ्गम् [अमर. २/३/४] इति लिङ्गभेदात् विसर्गानुस्वारौ। नानुस्वारविसर्गों Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188