Book Title: Vallabhiya Laghukruti Samucchaya
Author(s): Vinaysagar
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 148
________________ प्रश्नोत्तरैकषष्टिशतकाव्यम् ___ व्याख्याः- कीदृशो नाव इति। नावो बेडा कीदृशः कीदृक्षाः इष्यन्ते वाञ्छ्यन्ते? अत्र कीदृक् शब्दः त्यदादिषु दृशः. [पा. सू. ३/२/ ६०] इति क्विन्नन्त्वात् स्त्रीलिङ्गेऽपि व्यञ्जनान्तः । किं कर्तुं ? वारिधेः समुद्रस्य उपलक्षणात् नद्यादीनामपि वारि जलं तरीतुम् उल्लवितुं, तरीतुं इत्यत्र तुमुन् ण्वुलौ क्रियायाम् [पा. सू. ३/३/१०] इति तुमुन्। इति प्रश्ने, उत्तरम्अपराजयः राजि:=रेखा, राजिः स्यात् पङ्क्तिरेफयोः इति महेश्वरः [विश्वप्रकाश ज-द्विकम्-९] । 'लीहटी' इत्यादि भाषा। तदाकारत्वात् 'तेड' इति लोकप्रसिद्धभाषापि राजिरित्युच्यते। अपगता राजयो रेखा 'तेड' इति लोकभाषाप्रसिद्धा, याभ्यस्ताः अपराजयः । चः अनुक्तसमुच्चये। अशिवध्वनिः अशिव इति अक्षरत्रयात्मक: शब्दः कीदृशः तिर्यग्भेदमाख्याति कथयति इति प्रश्ने, उत्तरम्= अपराजयः अकरोत् । अशिव इति अक्षरत्रयस्य प्रथमस्वराक्षरात्, पर:-अग्रिमो यः अच् इकाररूप: तालव्यशकाराक्रान्तः तृतीयः स्वरः तस्य अयः गमनं नाशः इति यावत् यस्मात् सः अपराजयः। अशिव- शब्दः तालव्यशकार-तृतीयस्वरवर्जितो अश्व इति शब्दः सिध्यति, स च तिर्यग्भेदं घोटकनामानं आख्यातीत्यर्थः । ननु स्वराणां व्यञ्जनेभ्यः परत्वात् तालव्यशकारात् तृतीयस्वरस्य परत्वात्, अकारात् परस्य तालव्यशकारस्य परत्वं युज्यते, न इकारस्य, तत् कथम् अकारात् परः इकार इति चेत् ? उच्यते- इकारं विना अपराऽकारादिस्वराणां अग्रे अध उपरि च अवस्थानम् । इकारस्य तु व्यञ्जनानां पश्चादेवावस्थानम्। यतः द्वादशाक्षर्यां पच्छिम किम् इत्यादि पठनं लेखनं न्यासेऽपि व्यञ्जनानां पश्चादेवाऽस्य लेखनम्, अत: अकारात् पर इकार इत्ययमर्थो युक्तः ॥ १५॥ पीनकुचकुम्भलुभ्यन् किमाह भगिनीं स्मरातुरः कौल:?। हरनिकरपथस्वःसृष्टि वाचि ननर्गपदं कीदृक् ?॥ १६॥ ॥ भव मा स्वसा, दिशस्तनम्॥ व्याख्या:- पीनकुचेति। कौल: नास्तिक: भगिनी किमाह किं कथयति? कथं भूतः कौलः? पीनकुचकुम्भलुभ्यन् पीनौ-मांसलौ यौ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188