________________
प्रश्नोत्तरैकषष्टिशतकाव्यम्
___ व्याख्याः- कीदृशो नाव इति। नावो बेडा कीदृशः कीदृक्षाः इष्यन्ते वाञ्छ्यन्ते? अत्र कीदृक् शब्दः त्यदादिषु दृशः. [पा. सू. ३/२/ ६०] इति क्विन्नन्त्वात् स्त्रीलिङ्गेऽपि व्यञ्जनान्तः । किं कर्तुं ? वारिधेः समुद्रस्य उपलक्षणात् नद्यादीनामपि वारि जलं तरीतुम् उल्लवितुं, तरीतुं इत्यत्र तुमुन् ण्वुलौ क्रियायाम् [पा. सू. ३/३/१०] इति तुमुन्। इति प्रश्ने, उत्तरम्अपराजयः राजि:=रेखा, राजिः स्यात् पङ्क्तिरेफयोः इति महेश्वरः [विश्वप्रकाश ज-द्विकम्-९] । 'लीहटी' इत्यादि भाषा। तदाकारत्वात् 'तेड' इति लोकप्रसिद्धभाषापि राजिरित्युच्यते। अपगता राजयो रेखा 'तेड' इति लोकभाषाप्रसिद्धा, याभ्यस्ताः अपराजयः ।
चः अनुक्तसमुच्चये। अशिवध्वनिः अशिव इति अक्षरत्रयात्मक: शब्दः कीदृशः तिर्यग्भेदमाख्याति कथयति इति प्रश्ने, उत्तरम्= अपराजयः अकरोत् । अशिव इति अक्षरत्रयस्य प्रथमस्वराक्षरात्, पर:-अग्रिमो यः अच् इकाररूप: तालव्यशकाराक्रान्तः तृतीयः स्वरः तस्य अयः गमनं नाशः इति यावत् यस्मात् सः अपराजयः। अशिव- शब्दः तालव्यशकार-तृतीयस्वरवर्जितो अश्व इति शब्दः सिध्यति, स च तिर्यग्भेदं घोटकनामानं आख्यातीत्यर्थः ।
ननु स्वराणां व्यञ्जनेभ्यः परत्वात् तालव्यशकारात् तृतीयस्वरस्य परत्वात्, अकारात् परस्य तालव्यशकारस्य परत्वं युज्यते, न इकारस्य, तत् कथम् अकारात् परः इकार इति चेत् ? उच्यते- इकारं विना अपराऽकारादिस्वराणां अग्रे अध उपरि च अवस्थानम् । इकारस्य तु व्यञ्जनानां पश्चादेवावस्थानम्। यतः द्वादशाक्षर्यां पच्छिम किम् इत्यादि पठनं लेखनं न्यासेऽपि व्यञ्जनानां पश्चादेवाऽस्य लेखनम्, अत: अकारात् पर इकार इत्ययमर्थो युक्तः ॥ १५॥
पीनकुचकुम्भलुभ्यन् किमाह भगिनीं स्मरातुरः कौल:?। हरनिकरपथस्वःसृष्टि वाचि ननर्गपदं कीदृक् ?॥ १६॥
॥ भव मा स्वसा, दिशस्तनम्॥ व्याख्या:- पीनकुचेति। कौल: नास्तिक: भगिनी किमाह किं कथयति? कथं भूतः कौलः? पीनकुचकुम्भलुभ्यन् पीनौ-मांसलौ यौ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org