SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ ९० श्री श्रीवल्लभीय-लघुकृति - समुच्चयः कुचौ स्तनौ तावेव कुम्भौ वर्तुलोच्चत्वात् कलशौ पीनकुचकुम्भौ तौ लुभ्यन् गार्ध्यं कुर्वन् पीनकुचकुम्भलुभ्यन् । पीनपीनी तु स्थूलपीवरे इत्यमरः [अमर. ३/१/६१] । न लोकाव्यनिष्ठाखलर्थतृणा [पा. सू. २ / ३ / ६९] इति षष्ठीनिषेधात् तृतीया तत्पुरुषः । लुभ गायें [पा. धा. १३१८] गार्ध्य=आकाङ्क्षा, दैवादिकः अस्मात् लटः शतृशानचौ [पा. सू. ३/२/ १२४] अप्रथमा समानाधिकरणे इति शतृ प्रत्ययः । पुनः कथं भूतः कौल : ? अत-एव स्मरातुरः स्मरः कन्दर्पस्तेन आतुरो = व्याधित इव यः स स्मरातुरः, इति प्रश्ने उत्तरं - भव मा स्वसा दिशस्तनम् स्वसा - भगिनी मा - भव = मा स्तात् स्तनं दिशः- देहि मा इत्ययमत्र निषेधार्थे अव्ययम् । न माङ् स्तनमित्यजात्याख्यायात्रम् [पा. सू. १ / २ / ५३] इति जातावेकवचनम्। = चः पुनः ननर्गपदं चतुर्थवर्गपञ्चमद्वयव्यञ्जनरेफकवर्गतृतीयमयो निरर्थको ननर्गशब्दः । कीदृक् ? सत् हरनिकरपथस्वः सृष्टि वाचि ? ईश्वरसमूहमार्गदेवलोकसृष्टिवाचकं भवेदिति क्रियाध्याहारः । इति प्रश्ने, उत्तरं - भव मा स्वसा दिशस्तनम्, भश्च वश्च मा च स्वश्च सश्च भवमास्वसाः । भवमास्वसा एतानि अक्षराणि आदौ = धुरि यस्य तत् भवमास्वसादि । शस्तौ हिंसितौ लुप्तौ इति यावत् नौ नकारौ यस्मिंस्तत् शस्तनं-लुप्तनकारद्वयमित्यर्थः । ततो द्वाभ्यां कर्मधारये भवमास्वसादिशस्तनम् । ननर्ग इति वर्णत्रयात्मकशब्दस्य नकारद्वयलोपे आदौ भवमास्वसानां करणे च भर्ग वर्ग मार्ग स्वर्ग सर्ग इत्येते पञ्च शब्दा भवन्ति ते च हरादीनां पञ्चानां वाचका भवन्तीत्यर्थः । शसु हिंसायां [पा. धा. ७७२ ] भ्वादि उदितो वा [ पा. सू. ७/२/५६ ] इति वैकल्पिके डो अभावे शस्त इति सिद्धिः ॥ आर्या ॥ १६॥ नाभ्यम्भोजभुवः स्मरस्य च रुचो विस्तारयेति श्रियः, पत्युः प्रत्युपदेशनं कथमथो पत्नीष्यते कीदृशी ? । इत्याख्यत् कमला तथा कलियुगे कीदृक्कुराज्यस्थिति: ? कीदृश्याऽहनि चण्डभास्करकरे नक्षत्रराज्याऽजनि ? ॥ १७ ॥ ॥ विभावितानया ॥ गतागतद्विर्गत जातिः ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004049
Book TitleVallabhiya Laghukruti Samucchaya
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRander Road Jain Sangh
Publication Year2012
Total Pages188
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy