________________
प्रश्नोत्तरैकषष्टिशतकाव्यम्
व्याख्या:- नाभ्यम्भोजेति । लक्ष्मीनारायणयोः परस्परं प्रश्नोत्तरगोष्ठ्यां नारायणो लक्ष्मीमुपदिशति - हे लक्ष्मीति सम्बोधनपदमध्याहार्यम् । नाभ्यम्भोजभुवः ब्रह्मणः, च समुच्चये, स्मरस्य कन्दर्पस्य रुचः कान्तीर्महत्त्वरूपाः विस्तारय प्रथय । इति अव्ययमत्र विवक्षानियमे । ततोऽयमर्थः- रुचा- विस्तारय, एतल्लक्षणे नारायणस्य प्रश्नविवक्षानियमे श्रियः पत्युः नारायणस्य, अथवा पार्थक्येन व्याख्यानात् श्रियोलक्ष्म्याः पत्युः - स्वामिभर्तुरर्थात् नारायणस्य प्रत्युपदेशनं प्रतीपमुपदेशनं प्रत्युपदेशनं प्रतिकूलकथनं केन प्रकारेण स्यात् ? इति क्रियाध्याहारः । नारायणेन एवं प्रश्ने कृते लक्ष्मीः प्रतीपमुत्तरं वक्ति - विभावितानया । अस्यार्थः- हे अ! नारायण ! - विभाः उश्च ब्रह्मा, इश्च, कन्दर्पः इतीतरेतरयोगद्वन्द्वे इको यणचि [पा. सू. ६/१/७७] इति यणि, वी व्योः- ब्रह्मकामयोर्भा=कान्तयोर्विभाः, ता:- कर्मभूताः वितानय = प्रपञ्चय इत्यर्थ: स्युः प्रभारुग्ग्रुचिस्त्विङ्भाभाश्छविद्युतिदीप्तय: [ अमर. १/४ / ३४] इति स्वरूपे सान्निध्ये विवक्षानियमे मते इति अव्ययकाण्डः [ अनेकार्थ परिशिष्ट काण्ड२८]
-
--
--
कमला लक्ष्मीरित्याख्यत् इतीति अव्ययमत्र एवमर्थे, एवं कथयामास । इतीति किं ? अथो इत्योकारान्तः प्रश्नार्थोऽव्ययम् । अथाऽथो च शुभे प्रश्ने इति श्रीधर : [ विश्वलोचन अव्ययवर्ण अकारान्त- ३३ ] । पत्नी परिणीतास्त्री कीदृशी इष्यते वाञ्छ्यते इति कमलया कृते प्रश्ने नारायण उत्तरं कथयति - यानताविभावि । अस्यार्थः- वा-पत्नी नता= नम्रा विभौ स्वामिविषये हे इ ! - लक्ष्मि ! अस्य स्त्री ! पुंयोगादाख्यायाम् [पा. सू. ४/१/४८ ] इति डीषि, अम्बार्थनद्योर्हस्वः [पा. सू. ७/३/१०७] इति सम्बुद्धौ ह्रस्वः ।
Jain Education International
९१
कलियुगे राज्ये स्थितिः राज्ञः कर्ममर्यादा, राज्यं पत्यन्तपुरोहितादिभ्यो यक् [पा. सू. ५/१/१०८] इति यकः तस्य स्थितिः=मर्यादाः राज्यस्थितिः । कीदृशी ?
मर्यादा धारणा स्थितिः इत्यमरः [ अमर. २/८/२६] इति प्रश्ने उत्तरं - विभावितानया विभावितः, उत्पादितः साक्षात्कृतो । विशेषणलब्धो
For Personal & Private Use Only
www.jainelibrary.org