________________
२
श्रीश्रीवल्लभीय-लघुकृति-समुच्चयः वा अनयः = अन्यायो यया सा विभाविताऽनया। विभावितमाश्च स्तोत्यादितसाक्षात्कृतनिषेवितेषु इति अनेकार्थशेषः
[ ] । लब्धं प्राप्तं विन्नं भावितमासादितं च भूतं च इत्यमरः [अमर. ३/ १/१०४] ।
नक्षत्रराज्या नक्षत्रपङ्क्त्या। कीदृश्या! नक्षत्रराज्या नक्षत्रपङ्क्त्या अहनि दिवसे चण्डभास्करकरे सूर्यकिरणेषु अजनि जाता इति प्रश्ने, उत्तरं- विभावितानया। विगतो भानां भासां वा किरणानां वितानो विस्तारो यस्या सा विभाविताना तया। भाशब्द आबन्तः सकारान्तोपि। यद्वा विभाभि:प्रभाभिर्विताना उच्चा मन्दा शून्या वा या सा विभाविताना तया। वितानं तुच्छमन्दयोरिति इति महेश्वरः [विश्वप्रकाश न-त्रिकम्-५४] यद्वा, विगतो भानां वितानोऽवसरो यस्याः सा विभाविताना, विगततेजोऽवसरा इत्यर्थः । वितानं कदके यज्ञे विस्तारे क्रतुकर्मणि॥ ४४२ ॥ तुच्छे मन्दे वृत्तशून्ये शून्यावसरयोरपि [अनेकार्थ. ३/४४२-४४३] इति हैमानेकार्थः।
ननु चण्डभास्करकरेषु इति बहुवचने वक्तव्ये कथं चण्डभास्करकरे इत्येकवचनम् इति चेत् ? जात्याख्यायाम् कस्मिन् बहुवचनमन्यतरस्यां [पा. सू. १/२/५८] इति। कराणां जातित्वात् एकवचनं, सम्पन्नो यवः, सम्पन्ना यवाः इत्यादिवत्॥ गतागतद्विर्गतजातिः ॥ १७ ॥
प्रभुमाश्रित्य श्रीदं किमकुर्वन् के कया समं लक्ष्मि!?। कह केरिसया के मरणमुवागया लोद्धयनिरुद्धा?॥ १८॥
॥ समगंसताऽसा मया॥ [ द्विर्गतभाषाचित्रजातिः]॥ व्याख्या:- प्रभुमाश्रित्य इति। नारायणो लक्ष्मी पृच्छति- हे लक्ष्मि! के कया समं सः श्रीदं प्रभुम् ईश्वरम् आश्रित्य आसिव्य किमकुर्वन् किं कृतवन्तः? श्रीर्वेषरचना-शोभा-भारती-सरलद्रवे। लक्ष्यां त्रिवर्गसम्पत्तौ इति महेश्वर: [विश्वप्रकाश र-एकम्-२] त्रिवर्ग सम्पत्तिः समृद्धिरिति तट्टीका। इति प्रश्ने, उत्तरं- समगंसताऽसा मया। अस्यार्थ:- न विद्यते लक्ष्मीर्येषां ते असा:= नि:श्रीका नि:स्वा इति यावत्। मया लक्ष्म्या सह समगंसत=अमिलन् इति। गम्लुगतौ [पा. धा. १०५१] सम्पूर्वको गम्लृगतौ मेलनार्थः। समो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org