________________
प्रश्नोत्तरैकषष्टिशतकाव्यम् गम्वृच्छिभ्यां [पा. सू. १/३/२९] इति आत्मनेपदित्वे। वा गमः [पा. सू. १/ २/१३] इति झलाघोर्लुङ् सिचोरात्मनेपदविषययोर्वा कित्वात् तदाशयस्य अनुदात्तोपदेशे. [पा. सू. ६/४/३७] इति अनुनासिकस्य घोषस्य अभाव झलि ह्रस्वादङ्गात् [पा. सू. ८/२/२७] सिचस्य भावे च समगंसत इति सिद्धिः ।
लोद्धयनिरुद्धा के के रिसया कह मरणमुवागया। लुब्धकै: मृगवधाजीविभिर्निरुद्धा=निषिद्धस्वेच्छाचरणविचरणाः । के कीदृशाः कहं केन प्रकारेण मरणमुवागता=प्राप्ताः? इति प्रश्ने, उत्तरं– समगं सतासा मया। अस्यार्थ:-समकं = सह तुल्यकालमिति यावत् सत्रासा:=भयसहिताः दृगासन आकस्मिकभयेन च 'चमक अउद्रक' इत्यादि लोकभाषाप्रसिद्धे, न वर्तन्ते ये ते सत्रासा: मया-मृगा इत्यर्थः । लोद्धय इत्यत्र
ओत्संयोगे [हैम. प्राकृत व्याकरण १/१/१६] इति प्राकृतसूत्रेण ह्रस्वोकारस्य त्रयोदशस्वर एव भवति, पञ्चमस्वरस्तु अशुद्धः । समकमिति सममित्यव्ययं सहार्थे, सार्धं तु साकं सत्रा समं सह [अमर. ३/४/४] अतः अव्ययसर्वनाम्नामकच् [पा. सू. ५/३/७१] प्राक्टेरिति अज्ञाताद्यर्थे अकचि, सिद्धिः॥ आर्या ॥ १८॥
वसुदेवेन मुररिपु - हिँसाहेतुतां श्रियां पृष्टः। तेणं तेहिं चिय अक्खरेहिं से उत्तरं सिटुं॥ १९॥
॥ तायकमनयंत रयम्॥ [शाश्वतचित्रसमवर्णप्रश्नोत्तरम् ] व्याख्या:- वसुदेवेन इति। वसुदेवेन नारायणस्य पित्रा यैरिति अक्षरैः मुररिपुः नारायणः श्रियां लक्ष्मी हिंसाहेतुतां हिंसाकारणभावं विनाशमिति यावत् पृष्टः ? तेणं तेन मुररिपुणा चिअ इत्यव्ययं प्राकृते अवधारणार्थः, तेहिं तैः अक्खरेहिं से तस्य-वसुदेवस्य उत्तरं प्रतिवचः सिटुं सृष्टं दत्तमित्यर्थः । इति शस्तस्य सकारे पूर्वोक्त .......... इत् कृपादौ इति प्राकृतव्याकरणसूत्रेण [हैम. प्राकृतव्याकरण १/१२८] शकारस्य इकारे ष्टस्यानुष्ट्रेष्टासंदृष्टे [हैम. प्राकृतव्याकरण २/३४] इत्यनेन ......... टकारस्य ठकारे सिट्ठमिति सिद्धिः अतोऽत्र सिटुं कथितमिति व्याख्यान्ति न च ..... । इति प्रश्ने, कृते उत्तरंतायकमऽनयंत रयम्। अस्यार्थः हे अ!=कृष्ण! ताः= लक्ष्म्यः कंरयं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org