________________
९४
श्रीश्रीवल्लभीय-लघुकृति-समुच्चयः अनयन्त=प्रापयन्। री गतिरेषणयोः [पा. धा. १५९९], रेषणं हिंसा इति धातुपारायणे _ [ ] आत्मनेपदी रयणं रयः परश्च [पा. सू. ३/१/२] इति .... वादौ अश्च हिंसा क्षय इति यावत् रायणं रैषणं रेभृ शब्दे [पा. धा. ४१०] इति क्रयादि परस्मैपदी माधवः । अयं वसुदेवकृतप्रश्नार्थः । एतानि वसुदेवकृतप्रश्नाक्षराणि एषा एभिरेवाक्षरैर्वसुदेवं प्रतिरायणः उत्तरति-तायकमनयन्तरयम् प्राकृतमेतत् । अस्यार्थ:-ताय हे तात! हे पितः! वसुदेव! कमनयन्तरयं क्रमनयाऽन्तरतं क्रमश्च-परम्परा, अर्थात् कुलस्य, नयश्च नीतिः इति द्वन्द्वे क्रमनयौ। क्रमस्तु स्यात् पदसन्धिपरम्परयोः इति [ ] परम्पराशब्दोऽत्र अन्वयार्थः । परम्पराऽन्वये वधे इति हैमानेकार्थः [अनेकार्थ. २/४७५] । तयोरन्ते-विनाशे यो रतः आसक्तः सः क्रमनयान्तरतस्तम्। यः कुलं न्यायं च नाशयति तं, लक्ष्म्यौ नाशं नयन्तीत्यर्थः। अथवा क्रमायातो नयः क्रमनयः परम्परागतन्यायः। यद्वा क्र म:=शास्त्रां तदुक्तो नयः क्र मनयः राजनीतिशास्त्राद्युक्तनीतिः । अत्रोभयत्र शाकपार्थिवादिवन् [पा. वा. १७८] मध्यपदलोपी समासः । क्रमः कल्पांहिशक्तिषु परिपाट्यामिति। [अनेकार्थ संग्रह २/३२०] कल्पो। न्यायः शास्त्रं इति तट्टीका तथा च पाणिनिव्याकरणसूत्रम् क्रमादिभ्यो वुन् [पा. सू. ४/२/६१] । अत्रहि क्रमशब्दः शास्त्रपर्यायः, क्रमं वेत्ति अधीते वा क्रमकः, क्रमनयस्य अन्तो नासः तत्र रतो सः क्रमनयान्तरतस्तं। आर्याभेदः-द्वाभ्यां शाखाचित्र समवर्णप्रश्नोत्तरजातिः ॥ १९ ॥
किं प्राहुः परमार्थतः कमृषयः ? किं दुर्गमं वारिधेविद्याः कं न भजन्ति? रागिमिथुनं कीदृक्किमर्धं स्मृतम् ?। रक्षांसि स्पृहयन्ति किं ? तनुमतां कीदृक् सुखार्थादिकं ?, कीदृक्कर्षकलोकहर्षजनकं न व्योमवर्षाष्वपि?॥ २०॥
॥विगतजलदपटलम्॥ विपरीतमष्टदलकमलम्॥ व्याख्याः- किं प्राहुः इति। ऋषयः तत्त्वज्ञाः मुनयः परमार्थतः परमाभिधेयेन कं किं प्राहुः ? इति प्रश्ने, उत्तरं– विलं गलं-गलकण्ठं, विलं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org