SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ प्रश्रोत्तरैकषष्टिशतकाव्यम् ९५ बवयोरैक्यात् बिलं-विवरं प्राहुरिति योज्यम् । शरीरे प्रायो गलस्येव विवरत्वेन प्रतिपादनात्। वारिधेः समुद्रस्य किं दुर्गमं दुःखेन गमनयोग्यम् ? इति प्रश्ने, उत्तरं- तलम् अधोभागः । तलं स्वरूपाधरयोः इति महेश्वरः [विश्वप्रकाश र-द्विकम्-७] अत्र अधरशब्दः अधोभागपर्यायः । विद्याः चतुर्दश संख्याः, षडङ्गाद्याः पुराणान्ताः कं न भजन्ति न सेवन्ते? षडङ्गो ६, वेदाश्चत्वारो १० मीमांसा ११, ऽऽन्वीक्षिकी १२ तथा धर्मशास्त्रं १३ पुराणं १४ च विद्या एता चतुर्दशः॥ इति प्रश्ने, उत्तरं- जलं जडमित्यर्थः । जलं गोकलले (मु. सं. गोकवले) नीरे ह्रीबेरे च जडेऽन्यवत् इति महेश्वरः [विश्वप्रकार ल-द्विकम्-४] । रागि! मिथुनं, रागि कामसहितं तच्च तन्मिथुनं च दम्पतियुग्मं रागिमिथुनम् । कीदृक् ? रागी रक्तरि (रक्ते च) कामुके इति महेश्वरः [विश्वप्रकाश न-त्रिकम् १११] । मिथुनं दम्पतियुग्मे इति श्रीधरः [विश्वलोचन. न तृतीय-१०७] इति प्रश्ने, उत्तरं- ललं लडविलासे [पा. धा. ३८३] भ्वादि: परस्मैपदी। डलयोरैक्यात् डस्य लत्वे ललति=विलसति क्रीडतीत्यर्थः यत्तत् अचि ललं............... [अपूर्णम्] इत्यत्र भोभगोअघोअपूर्वयो ऽशीयत्वम् Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004049
Book TitleVallabhiya Laghukruti Samucchaya
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRander Road Jain Sangh
Publication Year2012
Total Pages188
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy