________________
केशा: कञ्जालिकाशाभाः पद्यस्य व्याख्या
।दि. ।। एँ नमः ।। सारस्वतस्य सूत्रे सत्केशा इति पदं स्फुटम्।
तच्छ्लोकटीकामाचष्टे श्रीश्रीवल्लभवाचकः।। के शाः कझालिकाशाभाः करकारिपिनाक भाः। विविगोगतयो दद्युः शं वोऽब्जाम्वुनगौकसः।। १।।
अस्य व्याख्या - क: ब्रह्मा, को ब्रह्मानिलसूर्याग्निः [विश्वलोचन, वर्ग ३] इत्यादीति श्रीधरः। अः कृष्णः, 'अः शिवे केशवे' [ एकाक्षर नाममालिका ५ ] इति विश्वशम्भुः । ईश:=महादेवः, 'शम्भुरीशः पशुपतिः' [१/१/३०] इत्यादि अमरः। एषां द्वन्द्वे केशाः ब्रह्मविष्णुशम्भवः कर्तारः व:=युष्मभ्यं शं सुखं दधुः=प्रदेयासुः । वः इत्यत्र पदाद् युगविभक्त्यैकवाक्ये वस्नसौ बहुले [ ] इति हैमसूत्रेण युष्मदश्चतुर्थीबहुवचने वस् आदेशः । सारस्वते तु षष्ठीचतुर्थीद्वितीयाभिस्ते मे वां नौ वस् नसौ [ ] इत्यनेन चतुर्थीबहुवचने युष्मदसो वस् आदेशः । चतुर्थीबहुवचनं चात्र सम्प्रदानकारकत्वाद् युक्तं, न तु षष्ठीबहुवचनमत्र इति ज्ञेयम्। शं दानस्य इह युष्मदिति पात्रम्।
किम्भूताः केशाः ? कञ्जालिकाशाभाः, कंजलं तस्मिन् जायते । कर्ज-श्वेतकमलं पीयूषं वा। कम् इति मन्तमव्ययम्। कम् उदकसुखाकाशेषु [ ] इति अव्ययवृत्तिः । सप्तम्यां जनेर्ड: ' [पा.सू. ३.२.९७] इति डः । 'कञ्जः केशे विरञ्चेऽपि कझं पीयूषपद्मयोः [विश्वप्र. जद्विके २] इति महेश्वरः। अतिः=भ्रमरः, इकारान्तोऽयम्। इन्दिन्दिरोलीरोलम्बः' [अभि.चि. १२१२] इति हैमः । इनन्तोप्ययम्, 'मधुलिट् मधुपालिनः' [अमर २.५.२९] इति अमरः । काश: लो के काशनामा खट:, तालव्यान्तः। 'काशे स्यादिक्षुगन्धेक्षुकाण्डश्यामलपुष्पकाः' [निघण्टु नाम ३७२] इति हैमनिघण्टुः । एषां द्वन्द्वे कञ्जालिकाशास्तेषामिव आभा देहदीप्तिर्येषां ते कालिकाशाभाः। अनेन हि ब्रह्मा पद्मवर्णः अथवा सुधावर्णः, श्वेतवर्णत्वात् ब्रह्मणः, विष्णुः श्यामवर्णः, शम्भुः श्वेतवर्ण इत्युक्तं भवति।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org