________________
केशाः कञ्जालिकाशाभाः पद्यस्य व्याख्या
९७
पुनः किम्भूताः केशाः ? करकारिपिनाकभाः, करक:=कमण्डलुः इति लोकप्रसिद्धः पानीयभाजनविशेषः । 'करको दाडिमे पक्षिभेदे करे कमण्डलौ' [ ] इति हैमः । अराणि=चक्राङ्गविशेषाः, लोके अरा इति भाषा । 'अरं शीघ्रे न चक्राङ्गे' [विश्व. प्र. र. द्धि. ३] इति महेश्वरः । तानि सन्त्यस्य अरीचक्रं सुदर्शननामकम्। पिनाकः = ईश्वरधनुः । पिनाकोऽजगवं धनुः ' [ अमर. १.१.३५ ] इति अमरः । एषां द्वन्द्वे करकारिपिनाकाः, तैः कृत्वा भान्ति = शोभन्ते ये ते करकारिपिनाकभाः । 'क्वचित्' [ ] इति डः प्रत्यय । अनेन किमुक्तं भवति ? करकशोभितो ब्रह्मा, ब्रह्मण: पाणौ कमण्डलुरिति लोकप्रसिद्धित्वात् । सुदर्शनाख्यचक्रायुधशोभितः कृष्णः । पिनाकधनुरायुधशोभितः शम्भुरिति ।
ननु करकारिपिनाका इत्यत्र द्वन्द्वे अल्पस्वरप्रधाने कारो=कारान्तानां पूर्वनिपातो वक्तव्यः इति अनुभूतिस्वरूपाचार्यवचनात्।‘अल्पाच् तरं’ [पा.सू. २.२.३४] अत्यल्पाच्कं द्वन्द्वे पूर्वं स्यात् इति पाणिनीयवचनाच्च अरिशब्दस्य पूर्वनिपातः स्यात् । अरिकरकपिनाकाः इति, तथा च सति क्रमव्यत्ययश्छन्दोभङ्गश्च स्यात् इति संशयापनोदाय ब्रूमः । मैवम्, बहुष्वनियम: [ ] इति तत्रैव पाणिनीयाचार्यैरुक्तत्वात् । यथा चोदाहरणम् - शङ्खदुन्दुभिर्वीणाः वीणाशङ्खदुन्दुभयः इति वत् करकारिपिनाका इति युक्तौ द्वन्द्वसमासः । न चात्रैवं सति क्रमव्यत्ययच्छन्दोभङ्गश्चेति ।
पुनः किम्भूताः केशाः ? विविगोगतयः, वि: - हंसः, विभिः = हंसै: रिच्यते=उह्यते विरिञ्चः, अकारान्तः शब्दः, पृषोदरादित्वात् साधुः इति अभिधानकोषवृत्तिः। विः=गरुडः, वि: पक्षी गरुडः सूर्यः [एकाक्षर नाममाला ८६] इति सौभरिः। गौ:- वृषभः, गौः पुमान् वृषभे स्वर्गे [ विश्वलोचन १] इति श्रीधरः । एतेषां द्वन्द्वे विविगाव:, तैः कृत्वा गतिः - गमनं येषां ते विविगोगतयः । किमुक्तं भवति ? हंसगतिर्ब्रह्मा, गरुडगतिः कृष्णः, गोगतिः शम्भुरिति ।
]
ननु विश्व हंसः विश्व मसह इत्यत्र द्वन्द्वे स्यादौ विभक्तौ तुल्यरूपाणां सहोक्तौ गम्यमानायाम् एकः शिष्यते इत्युक्तत्वात् । स्यादावसंख्येय [ इति सूत्रेण स्यादौ तुल्यरूपत्वात् वी इति एक शिष्यते । यथा- अक्षश्च शकटाक्षः, अक्षश्च देवनाख्यः, अक्षश्च विभीतकाख्यः, अक्षाः । एवं हरिण्यौ, रोहिण्यौ, वृक्षौ
For Personal & Private Use Only
www.jainelibrary.org
Jain Education International