SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ ९८ श्रीश्रीवल्लभीय-लघुकृति-समुच्चयः इति। एवं च सति अत्र छन्दोभङ्गः स्यात् इति संशयविनाशाय निवेदयामःमैवम्, अहो विश्वहंस विश्वगरुडः, गौश्च वृषभ इति विविगावः । तुल्यरूपस्य विशब्दस्य सत्यपि अर्थद्वये गोशब्देन त्रिपदत्वात् द्वन्द्वसमासो, न चात्र स्यादावसंख्येयः [ ] इति सूत्रेण विवीत्यत्र सहोक्तिः, एकशेषश्चेति । यदि शब्दैक्यं तदर्थबाहुल्यं तुल्यरूपत्वं च स्यात्तर्हि सहोक्तिरेकशेषश्च स्यात् । यथाअक्षाः, हरिण्यौ, रोहिण्यौ, वृक्षौ इति। न च तथैवमत्र, किन्तु त्रिपदो द्वन्द्व इत्यलमतिप्रसङ्गेन। पुनः किम्भूताः केशाः? अब्जाम्बुनगौकसः, अब्जञ्च-कमलम्, अम्बु च=जलम्, नगश्च पर्वतः इति द्वन्द्वे अब्जाम्बुनगाः । यथाक्रमम् एते ओक:=गृहं निवसनस्थानमिति यावत् येषां ते अब्जाम्बुनगौकसः। किमुक्तं भवति? अब्जौका: ब्रह्मा पद्मासनत्वात् ब्रह्मणः, अम्ब्वोकाः कृष्णः जलशयत्वाद्विष्णोः, नगौका: शम्भुः हिमाद्रिवसनाच्छम्भोरिति । एवम्विधाः केशाः वः शं दद्युरिति श्लोकार्थः। कृतश्चायं श्रीज्ञानविमलमहोपाध्यायमिश्राणां शिष्यवाचनाचार्य श्रीवल्लभगणिभिः । स च शिष्यादिभि र्वाच्यमानंश्चिरं नन्द्यात् श्रीशारदाप्रसादात्। पं. महिमामेरु ले.। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004049
Book TitleVallabhiya Laghukruti Samucchaya
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRander Road Jain Sangh
Publication Year2012
Total Pages188
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy