________________
खचरानन पश्य सखे खचर पद्यस्य व्याख्या-त्रिकम्
।। र्द. ।। एँ नमः ।। खचरानन पश्य सखेऽखचरः, खचराङ्कितपत्रशतः खचरः। खचरागमने रटते खचरं,
खचरी परिरोदिति हा खचर!।। १।। व्याख्या - यस्मिन्नवसरे कर्णराजेन वाक्छलेन हिडिम्बासुतो घटोत्कचो व्यापादितस्तस्मिन्नवसरे भृशं खिद्यमानां घटोत्कचमातरं हिडिम्बानाम्नीं विलोक्य हिडिम्बाभर्तारं पण्डुराजसुतं भीमं प्रति कश्चिद् विपश्चिद् एवं कथयामास
हे खचरानन ! खे-आकाशे चरति योऽसौ खचर:-चन्द्रमाः तद्वत् आननम्=मुखं यस्य स खचराननः, तत्सम्बोधनं हे खचरानन != हे भीमपाण्डव! हे सखे! मित्र! त्वं पश्य-विलोकय । खचरी हिडिम्बाराक्षसी त्वत्प्रिया हा इति खेदे, खचर खचर इति कथयन्ती परिरोदिति भृशं रोदनं करोति । कं प्रति? क इव? यथा खचराणाम् = मेघानाम् आगमनं यस्मिन् काले स खचरागमन: वर्षाकालस्तस्मिन् खचरागमने वर्षाकाले खचर:=मयूरो वप्पीहको वा खचरम् मेघं प्रति रटते-जल्पति, तथा खचरी हिडिम्बाराक्षस्यपि खचरेति कथयन्ती परिरोदिति-जल्पति इति यावत्।
ननु भो 'रट धातुः' परस्मैपदी वर्तते तत्कथम् अत्र आत्मनेपदी इत्याशङ्कापनो[दार्थम् उच्यते- 'गणकृतमनित्यम्' इति [ ] न्यायवशात् इह आत्मनेपदित्वं न दोषभाक्। यथा अन्यत्राप्युक्तम्- ‘भाषत भव्यजना इह सत्यम्।' [ ] इह हि भाषधातुरात्मनेपदी सन्नपि परस्मैपदित्वे निगदितः, इत्यादिवदिहापि रटधातोः आत्मनेपदित्वं न दोषपोषाय इति हृदयम्।
किम्भूतस्त्वं हे भीम! अखचरः, खे=आकाशे चरति यातीति खचरः, न खचरः अखचरः, मनुष्यत्वात्। यद् वा, खानि इन्द्रियाणि चरति अत्तीति खचरः, न खचरो अखचरः। यद्वा, श्लिष्टनिर्देशात् खचरः, खानि-सुखानि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org