________________
श्री श्रीवल्लभीय-लघुकृति - समुच्चयः
शत्रूणाम् इति गम्यते, तानि चरति = अत्ति वा इति खचरः । पुनः किम्भूतस्त्वम् ? खचराङ्कितपत्रशतः, खचरश्च = सूर्यः, खचरश्च = चन्द्रः, खचरश्च = चकोर:, खचरश्च=गरुडः, खचरश्च = शुकः, खचरश्च = राजहंसः, खचराः स्यादावसंख्येयः [ सिद्धम. ३ / १ / ११९] इति सूत्रेण एकशेषः । तैः अङ्कितानि - चिह्नितानि चित्रितानि इति यावत्, यानि पत्राणि - वाहनानि तानि खचराङ्कितपत्राणि, तेषां शतं यस्य स खचराङ्कितपत्रशतः, विविधचित्रयुक्तरथशत इत्यर्थः । इह हि लिङ्गभेदेन लुप्तोपमा दर्शिता ।
१००
इति प्रथमोऽर्थः । १ ।
काचित् प्रोषितभर्तृका स्वकीयभर्तृविरहेण अतीववर्षाकाले चिरं खिद्यमाना केनचित् पुरुषेण सार्द्धम् आत्मगतं विरहसमुद्भूतं दुःखम् आत्मनो भर्तारं प्रति निवेदयामास। सोऽपि पुमान् तस्या भर्तुरुपकण्ठे गत्वा तद्गतं विरहजातं दुःखम् अचकथत्
हे खचरानन!=हे चन्द्रवदन!, हे सखे! हे परममित्र ! पश्य=जानीहि । तव इति पदमध्याहार्यम् । खानि=इन्द्रियाणि पुरुषाणामिति गम्यते, चरन्ति = गच्छन्ति कटाक्षैर्यस्याः सा खचरी = कामिनी, हा इति खेदे, खम् = चन्द्रमण्डलं, यदुक्तम्खं पुनर्गगने विन्दाविन्द्रिये चन्द्रमण्डले । [महीपसचिवकृत एकाक्षरसंज्ञकाण्ड प. १३] इति । तत् इव चरम् - मुखं यस्य स खचरः, मुखे दन्तालयः स्योनं घनं चरम् [ ] इति वचनप्रामाण्यात् । तत्सम्बोधनं क्रियते हे खचर! - हे चन्द्रमण्डलवर्तुलवदन! हे भर्तः ! इति पुनः पुनः कथयन्ती परिरोदिति-परिखिद्यते । च=पुनः रटते=कथयति । इह चकारोऽध्याहार्यः । किमुक्तं भवति ? हे मित्र ! तव कामिनी हे भर्तः! हे भर्त: ! इति पुनः पुनः उच्चरन्ती सती खिद्यते कथयति च इत्यर्थः। इह परस्मैपदितो रटधातोरात्मनेपदित्वं प्राग्वद्भावनीयम् । किं कथयतीत्याह
खचराणां=मेघानाम् आगमनं यत्र काले सः कालः खचरागमनः=वर्षासमय इत्यर्थः । तस्मिन् खचरागमने वर्षाकाले खेषु इन्द्रियेषु चरति=विचरति खचरः = कन्दर्पः । इहापि चकारो ऽध्याहार्यः । च= पुनः खे=विहायसि चरति खचर: = मेघ: । खं सुखं चरति गच्छति यस्मात् तत् खचरं दुःखमित्यर्थः । तत्करोतीति क्रियापदमध्याहार्यम् । किमुक्तं भवति ? वर्षाकाले
1
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org