________________
खचरानन पश्य सखे खचर पद्यस्य व्याख्या-त्रिकम्
१०१ कन्दर्पो मेघश्च मम दुःखं करोतीत्यर्थः । किम्भूतस्त्वं हे खचरानन? खचराङ्कितपत्रशतः !, खम्=सम्यग्ज्ञानं तच्चरति यः सः खचरः, 'खं स्व: संविदि' [अनेकार्थसंग्रह १/५] इति वचनप्रामाण्यात् । अङ्कितम् विचित्रचित्रश्चित्रितं पत्रशतम्-वाहनं यस्य स अङ्कितपत्रशतः। खचरश्चासौ अङ्कितपत्रशतश्च इति कर्मधारयसमासे खचराङ्कितपत्रशतः।
इति द्वितीयोऽर्थः । २। कश्चिद् विपश्चिद् मङ्गलपाठकः प्रभाते जाते सति कञ्चन राजानं प्रति प्रभातसमयं प्रबोधयति स्म-'वाच्यलिङ्गः ख शब्दोऽर्के वितर्के व्योम्नि वेदने। प्रश्ननिन्दानृपक्षेपसुखशून्येन्द्रिये दिवि।' इति वचनप्रामाण्यात्। ख- शब्देन राजा प्रोच्यते, ततस्तत्सम्बोधने हे ख!= हे राजन!, हे खचरानन!-हे चन्द्रवचन! स त्वं पश्यं विलोकय। खचर:-सूर्यः तस्य आगमनम् उदय इति यावत् । यस्मिन्काले खचरागमनः तस्मिन् खचरागमने=प्रभातसमये खे चरतीति खचर:=चक्रवाको रटते-जल्पति। खचर इत्यत्र जातावेकवचनम्। ते न खचर इत्युक्ते खचरा: = चक्र वाका: रटन्तीत्यर्थ: । रटतेर्धातोरित्यत्राप्यात्मनेपदित्वं प्राग्वदवसेयम्। किम्भूतः सन् खचरो रटते? खे-आकाशे चरतीति खचरः सन् । कोऽर्थः? आकाशे उड्डीनः सन् इत्यर्थः । चकारोऽत्र अध्याहार्यः । तेन च पुनः खचरी चकोरस्त्री, हा इति खेदे, हे खचर! हे चन्द्र ! इति समुच्चरति । खस्य-सुखस्य चर:=गमनं यत्र तत् खचरं, सदु:खमित्यर्थः । एवं यथाभवति तथा परिरोदिति, भृशं खिद्यतीत्यर्थः । स त्वं पश्य। स इति कः? यस्त्वं खचराङ्कितपत्रशतः, खे-स्वर्गे चरति विचरतीति खचर:=इन्द्रः; स इव अङ्कित: लक्षितो ज्ञातो यः सः खचराङ्कितः, पत्राणाम् वाहनानां गजाश्वादीनां शतं यस्य स पत्रशतः । खचराङ्कितश्चासौ पत्रशतश्च इति कर्मधारये खचराङ्कितपत्रशतः।
इति तृतीयोऽर्थः । ३।। एवमन्येऽप्यर्था भूयांसो भवन्ति, परं किं बहुश्रमेण इति । येषां वाचःशिशिररुचिकलेवातिशुद्धा विबुद्धास्तेषां श्रीवाचकज्ञानविमलसुगुरूणां सुशिष्यः सहर्षम्।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org