Book Title: Vallabhiya Laghukruti Samucchaya
Author(s): Vinaysagar
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 159
________________ श्री श्रीवल्लभीय-लघुकृति - समुच्चयः शत्रूणाम् इति गम्यते, तानि चरति = अत्ति वा इति खचरः । पुनः किम्भूतस्त्वम् ? खचराङ्कितपत्रशतः, खचरश्च = सूर्यः, खचरश्च = चन्द्रः, खचरश्च = चकोर:, खचरश्च=गरुडः, खचरश्च = शुकः, खचरश्च = राजहंसः, खचराः स्यादावसंख्येयः [ सिद्धम. ३ / १ / ११९] इति सूत्रेण एकशेषः । तैः अङ्कितानि - चिह्नितानि चित्रितानि इति यावत्, यानि पत्राणि - वाहनानि तानि खचराङ्कितपत्राणि, तेषां शतं यस्य स खचराङ्कितपत्रशतः, विविधचित्रयुक्तरथशत इत्यर्थः । इह हि लिङ्गभेदेन लुप्तोपमा दर्शिता । १०० इति प्रथमोऽर्थः । १ । काचित् प्रोषितभर्तृका स्वकीयभर्तृविरहेण अतीववर्षाकाले चिरं खिद्यमाना केनचित् पुरुषेण सार्द्धम् आत्मगतं विरहसमुद्भूतं दुःखम् आत्मनो भर्तारं प्रति निवेदयामास। सोऽपि पुमान् तस्या भर्तुरुपकण्ठे गत्वा तद्गतं विरहजातं दुःखम् अचकथत् हे खचरानन!=हे चन्द्रवदन!, हे सखे! हे परममित्र ! पश्य=जानीहि । तव इति पदमध्याहार्यम् । खानि=इन्द्रियाणि पुरुषाणामिति गम्यते, चरन्ति = गच्छन्ति कटाक्षैर्यस्याः सा खचरी = कामिनी, हा इति खेदे, खम् = चन्द्रमण्डलं, यदुक्तम्खं पुनर्गगने विन्दाविन्द्रिये चन्द्रमण्डले । [महीपसचिवकृत एकाक्षरसंज्ञकाण्ड प. १३] इति । तत् इव चरम् - मुखं यस्य स खचरः, मुखे दन्तालयः स्योनं घनं चरम् [ ] इति वचनप्रामाण्यात् । तत्सम्बोधनं क्रियते हे खचर! - हे चन्द्रमण्डलवर्तुलवदन! हे भर्तः ! इति पुनः पुनः कथयन्ती परिरोदिति-परिखिद्यते । च=पुनः रटते=कथयति । इह चकारोऽध्याहार्यः । किमुक्तं भवति ? हे मित्र ! तव कामिनी हे भर्तः! हे भर्त: ! इति पुनः पुनः उच्चरन्ती सती खिद्यते कथयति च इत्यर्थः। इह परस्मैपदितो रटधातोरात्मनेपदित्वं प्राग्वद्भावनीयम् । किं कथयतीत्याह खचराणां=मेघानाम् आगमनं यत्र काले सः कालः खचरागमनः=वर्षासमय इत्यर्थः । तस्मिन् खचरागमने वर्षाकाले खेषु इन्द्रियेषु चरति=विचरति खचरः = कन्दर्पः । इहापि चकारो ऽध्याहार्यः । च= पुनः खे=विहायसि चरति खचर: = मेघ: । खं सुखं चरति गच्छति यस्मात् तत् खचरं दुःखमित्यर्थः । तत्करोतीति क्रियापदमध्याहार्यम् । किमुक्तं भवति ? वर्षाकाले 1 Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188