Book Title: Vallabhiya Laghukruti Samucchaya
Author(s): Vinaysagar
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 165
________________ १०६ श्रीश्रीवल्लभीय-लघुकृति-समुच्चयः समवसृताः । तस्यां च सर्वे लोकाः पारतीर्थिकधर्मधारिणो वसन्ति, न कोऽपि जैनधर्मधारी। ततः साध्वाचारं पालयद्धि: सिद्धान्तोक्त तीर्थङ्करधर्मशुभकर्मप्ररूपणां कुर्वद्भिः सद्भिः श्रीरत्नप्रभसूरिभि: पारतीर्थिकानेकच्छेकविवेकिलोका: प्रतिबोधिताः । तत एतेषाम् ओकेशा इति विरुदो विख्यातो जातः । इति तृतीयोऽर्थः ।। ३ ।। ४. अः कृष्णः, आः ब्रह्मा, उ: शङ्करः, एषां द्वन्द्वे आवरत्ततः ओभिः कृष्णब्रह्मशङ्करैर्देवैः कायते स्तूयते देवाधिदेवत्वात् इति ओकः । प्रस्तावात् श्रीवर्द्धमानस्वामी । क्वचित् [सि.है.सू.५.१.१११] इति ड प्रत्ययः । ओकश्चासौ ईशश्च ओकेशः, तस्याऽयं ओकेशः वर्तमान तीर्थाधिपति श्रीवर्द्धमान जिनपतितीर्थाश्रयणात् । इति चतुर्थोऽर्थः ।। ४।। __५. अ:=अर्हन्, 'अः स्यादर्हति सिद्धे च' [ ] इत्युक्तेः। प्रस्तावादिह अ इति शब्देन श्रीवर्द्धमानस्वामी प्रोच्यते। ततः अस्य ओक:=गृहं चैत्यमिति यावत्, ओक:=श्रीवर्द्धमानस्वामिचैत्यमित्यर्थः । तस्मादीश: ऐश्वर्य यस्य स ओकेशः । यतोऽयं गणः श्रीमहावीरतीर्थकरसान्निध्यतः स्फीतमवाप। इति पञ्चमोऽर्थः ।।५।। एवमस्य पदस्याऽन्येऽनेकेऽप्यर्थाः संबोभुवति परं कि बहुश्रमेणेति। अथ उपकेशशब्दस्य कियन्तोऽर्थाः लिख्यन्ते= १. उपसमीपे, के शाः शिरोरुहाः सत्यस्येति उपके शः । श्रीपार्थापत्यीय- श्रीकेशिकुमारानगारः एतदुत्पत्तिवृत्तान्तस्तु श्रीस्थानाङ्गवृत्त्यादौ सप्रपञ्चः प्रतीत एवास्ति तत एवाऽवगन्तव्यः । ततः उपकेशः श्रीकेशिकुमारानगार: पूर्वजो गुरुर्विद्यते यस्मिन् गणे स उपकेशः । अभ्रादित्वाद् अः प्रत्ययः । अस्मिन् गच्छे हि श्रीकेशिकुमारानगारः प्राचीनो गुरुरासीत्, ततो यथार्थम् उपकेशनाम जातम्। इति प्रथमोऽर्थः ।। १ ।। २. उपवर्जिताः-त्यक्ताः केशा: यत्र स उपकेशः। ओसिकानगरी तस्यां हि सत्यिकादेव्याश्चैत्यमस्ति, तदग्रे च घनैर्जनैः प्रथमं जातबालकानां सुदिने दिने मुण्डनं कार्यते, ततः उपकेश इति यथार्थं नाम ओसिकानगर्याः प्रख्यातं जातम्। तत्र भवो यो गच्छः स उपकेशः प्रोद्य[ ?च्य] ते सद्भिर्विद्वद्भिः । अत्र हि भवे' [सि.हे.सूत्र ६.३.१२३] इत्यनेन सूत्रेण अणि प्रत्यये संज्ञापूर्वकस्य विधेरनित्यत्वाद् Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188