Book Title: Vallabhiya Laghukruti Samucchaya
Author(s): Vinaysagar
Publisher: Rander Road Jain Sangh
View full book text
________________
चतुर्दशस्वरस्थापनवादस्थलम्
११५ न चैवम्, सत्यम्, अकारादयः पञ्च चत्वार एकारादय 'उभये स्वराः' [संज्ञाप्र० ४. ] इति व्याकुर्वत आचार्यस्याभिप्रायेण अयमर्थः । स चाऽयं ह्रस्वदीर्घति सूत्रस्य समानदशकत्वस्थापकत्वेन साक्षिकस्य इव 'अइउऋल समानाः '[संज्ञाप्र० १.] ए ऐ ओ औ सन्ध्यक्षराणि'[संज्ञाप्र० ३.] इति सूत्रद्वयस्य विचाले स्थितत्वात् अकारादयः पञ्च, उभये ह्रस्वदीर्घाः, चत्वार एकारादयः स्वरा उच्यन्ते इति अयमर्थः समर्थः ।
यद्वा, उभये इति पदम् अत्र तन्त्रेण भण्यते। तन्त्रं नाम सकृदनुष्ठितस्य उभयार्थसाधकत्वम्। यथा उभयोः प्रधानयोर्मध्ये व्यवस्थापितः प्रदीप: सकृत्प्रयत्नकृतः उभयोपकारक: स्यात्, तथा उभये इति पदमपि सकृदुच्चरितं ह्रस्वदीर्घति समुदायद्वयस्य अकारादिपञ्चक एकारादिचतुष्केति समुदायस्य च उपकारकम्।
अथवा, उभये इति पदम् आवृत्त्या आवर्तनीयम्। आवृत्तिर्नाम पुनः पाठः एकशेषे वा। स च यथा उभये उभये स्वराः इति वारद्वयम् उभये इत्यस्य पाठे पठनीये। एकश: पाठे उभये स्वरा, इत्ययम्, पुनः पाठे उभये च उभये च उभये सरूपाणामेकशेष इत्येकशेषेऽपि उभये स्वराः इत्येकशेषः। एवं तन्त्रेण पुनः पाठेन एकशेषेण च उभये स्वराः इतीदृशं सूत्रं सूत्रयति स्म सरस्वती, तस्य अयमभिप्रायार्थः।
प्रथमेन उभये इति पदेन चतुर्णां ह्रस्वदीर्घप्लुतभेदानां स्वरसंज्ञा-सद्भावेपि सन्ध्याकार्यानुपयोगित्वात् प्लुतभेदान् परित्यज्य ह्रस्वदीर्घ इति समुदायद्वयमग्रहीत्।
द्वितीयेन उभये इति पदेन 'अइउऋलुसमानाः'[संज्ञाप्र० १. ] इति सूत्रोक्ता अकारादयः पञ्च, ए ऐ ओ औ सन्ध्यक्षराणि[ संज्ञाप्र० ३.] इति सूत्रोक्ताश्चत्वार एकारादय इति समुदायद्वयम् अग्रहीत्। ततोऽयमर्थः- अकारादयः पञ्च, उभये ह्रस्वदीर्घाः, चत्वार एकारादयः उभये स्वरा उच्यन्ते इति। स्वयं राजन्ते शोभन्ते एकाकिनोऽपि अर्थं प्रतिपादयन्त इति स्वराः। उ प्रत्ययः पृषोदरादित्वात् स्वयं शब्दस्य स्वभावः । तथा च स्वरलक्षणं प्रोक्तं प्राग्भिः
अविष्णुः स्मृतिवाक्ये आ इ गताविति मूर्तिभिः। लिङ्गनिपातधातूनां विराजन्ते स्वयं स्वराः॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188