Book Title: Vallabhiya Laghukruti Samucchaya
Author(s): Vinaysagar
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 173
________________ ११४ श्रीश्रीवल्लभीय-लघुकृति-समुच्चयः मातृकायां पुरा प्रोक्ताः स्वराः षोडशसंख्यया। तेषां द्वावन्तिमौ त्याज्यौ चत्वारश्च नपुंसकाः॥ शेषा दश स्वरास्तेषु स्यादेकैकं द्विकं द्विकम्। इति। एवम् अकारादीनां प्रत्येकं युग्मयुग्मत्वेन सवर्णत्वात् समानसंज्ञा सिद्धा। प्लुतस्य च सवर्णसंज्ञासद्भावेपि सन्ध्यादिकार्येषु सन्धिकार्याऽनर्हत्वात् न समानसंज्ञेति। ननु लोकेऽपि अ-इ-उ-ऋ-लु इति ह्रस्वपञ्चाक्षराणां पञ्चदीर्घाक्षरैः सह रेखाद्याकृतिविशेषे सत्यपि 'एकदेशविकृतम् अनन्यवद्भवति' इति न्यायादभेदात् 'वर्णग्रहणे जातिग्रहणम्' इति न्यायेनाऽपि च एकवर्णग्रहणे तज्जातीयस्य अनेकस्यापि ग्रहणात् समानसंज्ञाप्रतिज्ञा युक्ता। यतः- प्रथम मातृकापाठं पाठयतां बालानामपि' "आईडा बि भाईडा, वडइ भाई कानउ" इत्यादि उच्चारणकालात् अग्रे उपरि अधश्च कानकादिरेखाविशेषाणां लेखनात्, ज्योतिःशास्त्रेऽपि नामादिमाऽक्षरोच्चारे ह्रस्वदीर्घयोरेकराशिगणनाच्च। व्याकरणेनाऽपि मातृकाक्षराणामेव निर्णयकरणात् व्याक्रियन्ते स्वरव्यञ्जनानि स्वरव्यञ्जनसंयोगाऽसंयोगाभ्याम् ३ आकारविशेषी क्रियन्ते अनेनेति व्याकरणम् इति व्युत्पत्तेः । इति सारस्वतव्याकरणे 'दश समाना' इति संज्ञा सिद्धा। 'उभये स्वराः' [ संज्ञाप्र० ४.] इत्यस्यायमर्थः- उभौ अवयवौ ह्रस्वदीर्धी कार्यकाले येषां ते उभये उभशब्दादपि सर्वादित्वाज्जसीत्वम्। ननु ह्रस्वदीर्घप्लुतभेदानां स्वरसंज्ञासद्भावेऽपि उभये इति पदस्य कस्य कस्यचिद् विशेषार्थस्य प्रतिपादकत्वात् उभये इति पदं प्रयुक्तवानाचार्यः । एवं नो चेत्, उभये इति पदस्य समुदायद्वयपरामर्शकत्वात् 'ह्रस्वदीर्घप्लुतभेदाः सवर्णाः[संज्ञाप्र० २. ] इति सवर्णसंज्ञकाः । ए ऐ ओ औ सन्ध्यक्षराणि' [संज्ञाप्र० ३. ] इति सन्ध्यक्षरसंज्ञाश्च उभये स्वरसंज्ञा भवन्तीति व्याख्या स्यात्? १. बालकानामवि इति कै। २. कारणात् कै। ३. संयोगा नास्ति कै.। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188