Book Title: Vallabhiya Laghukruti Samucchaya
Author(s): Vinaysagar
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 171
________________ ११२ श्रीश्रीवल्लभीय-लघुकृति-समुच्चयः ___ 'अकारादयः पञ्च चत्वार एकारादय' १ इति वृत्तौ नियमस्यैव करणात् नवेति पदस्य ग्रहणे प्रयोजनाभावात्। अत्र प्रतिवादी प्रति वदति नैवम्, नव स्वरा, इत्यङ्गीकरणे दधि आनय, गौरी अत्र, वधू आसनम् इत्यादिषु प्रयोगेषु 'इयं स्वरे' [स्वरसन्धि १] 'उ वम्' [स्वरसन्धि ५] इत्यादिषु सूत्रेषु स्वरे इति पदेन नवानामेव स्वरेण अग्रहणात्। दीर्घानामग्रहणात् 'इयं स्वरे' 'उ वम्' इत्यादीनां प्राप्तेरभावात्। दध्यानय इत्यादीनामुदाहरणानां सिद्धिर्न स्यात्। अथ चेत्, 'ह्रस्वदीर्घप्लुतभेदाः सवर्णाः'[संज्ञाप्र० २.] इत्यनेन सूत्रेण दीर्घग्रहणात् सिद्धिर्भविष्यति। एवं चेत्, तर्हि स्वरसंज्ञाव्याघातात् इयं स्वरे दीर्घ च इतीदृशं सूत्रं स्यात्, न तथा। अतः स्वराः चतुर्दशैव सर्वव्याकरणादिशास्त्रसम्मतत्वात् सर्वशिष्टप्रमाणत्वाच्च। ननु सरस्वतीविहितसूत्रस्य अनुभूतस्वरूपाचार्यविहितव्याख्यानस्य च अल्पाक्षरै : समस्तपुराणव्याकरणसम्मताऽनल्पार्थसूचनात् अइउऋलुसमानाः [संज्ञाप्र० १. ] इति सूत्रेण समाना इत्यस्य अयमर्थःसमानं तुल्यं मानं परिमाणं येषां ये समानाः । ३ __सत्यम्, उदात्तानुदात्तस्वरितभेदात् त्रयस्तावद् अकाराः । पुनस्ते सानुनासिक-निरनुनासिकभेदात् द्विविधाः । केचिदकाराः उदात्तानुदात्तस्वरिताः सानुनासिकाः, केचिदकाराः उदात्तानुदात्तस्वरिताः निरनुनासिकाः । इति अकार: षोढा भिद्यते। एवं दीर्घप्लुतयोरपि प्रत्येकं भेदकथनात् अष्टादशधा भिद्यते अवर्णः । एवं इवर्णादयोऽपि। इत्थं समानपरिमाणत्वयुक्तत्वात् समान- संज्ञा अन्वर्था अकारादीनामित्यर्थः। __ननु एवं सति अकारादीनां पञ्चानामेव समानसंज्ञासद्भावे गङ्गानामित्यादौ दीर्घाकारादीनां समानकार्यं न स्यात् इत्याशङ्कां निराकर्तुम् अनुक्तामपि १. पञ्च चत्वार एकारादयः नास्ति कै. प्रतौ २. 'प्रति' नास्ति कै.। ३. कै. प्रतौ - ननु अकारादयः पञ्चवर्णा असदृशं विलक्षणमाकारं बिभ्राणाः कथं समानपरिमाणाः येन समानं परिमाणं येषां ते समानपरिमाणा इत्यर्थः कथ्यते? Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188