Book Title: Vallabhiya Laghukruti Samucchaya
Author(s): Vinaysagar
Publisher: Rander Road Jain Sangh
View full book text
________________
११८
श्रीश्रीवल्लभीय-लघुकृति-समुच्चयः एकमातृकवाणीशौ सारस्वत-ललाटकौ। मृत्युञ्जयः स्वराद्यश्च मातृकाद्यो लघुस्तथा।
आ
आकारोऽनन्तक्षीराब्धी गुरुर्नारायणो मुखम्! वृत्ताकारो दीर्घ, आपश्चतुर्मुखप्रकाशको। मुखवृत्ताऽमृते वक्रो द्वितीयस्वरमोदकौ।
इति। अपि चव्यञ्जनानि त्रयस्त्रिंशत् स्वराश्चैव चतुर्दश।
[ ] इति । इत्याद्यनेकशास्त्रानुसारेण चतुर्दशस्वराः सारस्वतव्याकरणेऽप्यवश्यम् 'उभये स्वराः'[सा. संज्ञाप्रकरण. ४] इति सूत्रस्य पूर्वोक्तरीत्या व्याख्यानात् अवबोधव्यानि ? विद्ववृन्दारकैः।
एकविंशतिरपि स्वराः यत् पाणिनीयशिक्षा___'स्वरा विंशतिरेकश्च' [पाणिनीयशिक्षा प. ४] इति । तच्चैवम् - अ१, इ२, उ३ एते त्रयः ह्रस्वदीर्घप्लुतभेदात् नव ९, ऋवर्णः प्लुतहीनो द्विविधः २, लकारो दीर्घहीनो द्विविधः २, सन्ध्यक्षराणि २ दीर्घप्लुतभेदात् ८, एवं एकविंशति-स्वराः सन्ति। परं व्याकरणे सन्ध्यादिकार्योपयोगित्वेन चतुर्दशानामेव उपयोगात् चतुर्दशैव स्वराः।
ये च सारस्वतटीकाकाराः वासुदेवादयः पञ्च समानाः नवस्वराः अष्टौ नामिनः इति प्रतिपादयन्ति, तद् असत्, पूर्वकविप्रणीतव्याकरणद्यनेकग्रन्थैः सह विरोधात्, सरस्वतीकृत समानादिसंज्ञामपि च सर्वपूर्वकविप्रणीतानेकग्रन्थसंज्ञानुयायित्वात्। इति श्रीश्रीवल्लभोपाध्यायविरचितं चतुर्दश स्वरस्थापनवादस्थलं समाप्तम्।
१. बोधव्या कै. २. अष्टौ इत्यधिकपाठो कै.। ३. समानऽमपि इति जयपुर प्रतौ.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188