SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ ११८ श्रीश्रीवल्लभीय-लघुकृति-समुच्चयः एकमातृकवाणीशौ सारस्वत-ललाटकौ। मृत्युञ्जयः स्वराद्यश्च मातृकाद्यो लघुस्तथा। आ आकारोऽनन्तक्षीराब्धी गुरुर्नारायणो मुखम्! वृत्ताकारो दीर्घ, आपश्चतुर्मुखप्रकाशको। मुखवृत्ताऽमृते वक्रो द्वितीयस्वरमोदकौ। इति। अपि चव्यञ्जनानि त्रयस्त्रिंशत् स्वराश्चैव चतुर्दश। [ ] इति । इत्याद्यनेकशास्त्रानुसारेण चतुर्दशस्वराः सारस्वतव्याकरणेऽप्यवश्यम् 'उभये स्वराः'[सा. संज्ञाप्रकरण. ४] इति सूत्रस्य पूर्वोक्तरीत्या व्याख्यानात् अवबोधव्यानि ? विद्ववृन्दारकैः। एकविंशतिरपि स्वराः यत् पाणिनीयशिक्षा___'स्वरा विंशतिरेकश्च' [पाणिनीयशिक्षा प. ४] इति । तच्चैवम् - अ१, इ२, उ३ एते त्रयः ह्रस्वदीर्घप्लुतभेदात् नव ९, ऋवर्णः प्लुतहीनो द्विविधः २, लकारो दीर्घहीनो द्विविधः २, सन्ध्यक्षराणि २ दीर्घप्लुतभेदात् ८, एवं एकविंशति-स्वराः सन्ति। परं व्याकरणे सन्ध्यादिकार्योपयोगित्वेन चतुर्दशानामेव उपयोगात् चतुर्दशैव स्वराः। ये च सारस्वतटीकाकाराः वासुदेवादयः पञ्च समानाः नवस्वराः अष्टौ नामिनः इति प्रतिपादयन्ति, तद् असत्, पूर्वकविप्रणीतव्याकरणद्यनेकग्रन्थैः सह विरोधात्, सरस्वतीकृत समानादिसंज्ञामपि च सर्वपूर्वकविप्रणीतानेकग्रन्थसंज्ञानुयायित्वात्। इति श्रीश्रीवल्लभोपाध्यायविरचितं चतुर्दश स्वरस्थापनवादस्थलं समाप्तम्। १. बोधव्या कै. २. अष्टौ इत्यधिकपाठो कै.। ३. समानऽमपि इति जयपुर प्रतौ. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004049
Book TitleVallabhiya Laghukruti Samucchaya
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRander Road Jain Sangh
Publication Year2012
Total Pages188
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy