________________
चतुर्दशस्वरस्थापनवादस्थलम्
११९ श्रीजिनराजसूरीन्द्रे धर्मराज्यं विधातरि । अस्मिन् खरतरे गच्छे धर्मराज्यं विधातरि ॥१॥ जगद्विख्यातसत्कीर्त्तिानविमलपाठकः । योऽभवत्तस्य पादाब्जभ्रमरायितमानसः ॥ २ ॥ श्रीवल्लभ उपाध्यायः समाख्यातीति सूनृतम्। चतुर्दशस्वरा एते सर्वशास्त्रानुसारतः ॥ ३॥
त्रिभिर्विशेषकम् इति श्रीश्रीवल्लभोपाध्यायविरचित-सारस्वतमतानुगत
सर्वशास्त्रसम्मत-चतुर्दशस्वरस्थापनवादस्थलप्रशस्तिः समाप्ता। तत्समाप्तौ च समाप्तं चतुर्दश
स्वरस्थापनवादस्थलम्। तच्च वाच्यमानं चिरं नन्दतात्।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org